SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः। २७ यया कयाचित् श्रुत्या यत् समानमनुभूयते। तपाहि पदासत्तिः सानुप्रासा रसावहा ॥ ५२ ॥ एष राजा यदा लक्ष्मीं प्राप्तवान् ब्राह्मणप्रियः । तादृशकाय्यार्थानुशीलनजन्मा भावविशेष एव रसः। माधुयादिगुणास्तु तदव्यचकवर्णादिमत्वेन विन्यासमहिम्ना च तत्योषका एवेति विभावनौयम् । केचित्तु पृथक्पदत्वं माधुयें शब्दगुण एष उक्तिवैचित्रामावन्तु अर्थगुण इति वदन्ति उदाहरन्ति च क्रमेण स्था श्वासान् मुञ्चति भूतले विलुठति त्वन्मार्गमालोकते इत्यादि। भानुः सक्कयुक्ततुरङ्ग एव रात्रिन्दिवं गन्धवह. प्रयाति इत्यादि वस्तुतस्तु उभयमेव एकरूपं न तु कथित् प्रभेदो लक्ष्यते उदाहरणयोरिति चिन्तनीयम् ॥ ५१ ॥ श्रुत्यनुप्रासवर्णसंहतेः रसव्यचकतां दर्शयति ययेति । यया कयाचित् कण्ठतावादिरूपया इत्यर्थः श्रुत्या श्रवणसाधनीभूतन उच्चारणेन यत् समानम् अनुभूयते तद्रूपा तादृशानुभवविषयिणी सानुप्रासा रसव्यञ्जकप्रकृष्टविन्यासवती पदासत्तिः पदानाम् पासत्तिः अव्यवधानेन अवस्थितिः रसम् प्रावहतीति रसवहा हिरवधारणार्थ: निश्चितमेव रसपोषिकेत्यर्थः । एतेन कण्हताखादिस्थानक्येन व्यञ्जनवर्णानां सादृश्यं श्रुत्यनुप्रास इत्यर्थात् पायातम्। उक्तञ्च दर्पणकारेण यथा, उच्चार्यत्वात् यदैकत्र स्थाने तालुरदादिके। सादृश्यं व्यञ्जनस्यैष श्रुत्यनुप्राप्त उच्यते ॥ इति अस्य च अलङ्कारप्रकरणीयत्वेऽपि इह गुणप्रसङ्गात् लक्षणमुक्तं वक्ष्यते च काश्चिमार्गविभागार्थयुक्ताः प्रागप्यलडिया इति ॥ ५२ ॥ उदाहरणं दर्शयति एष इति। ब्राह्मणाः प्रिया यस्य
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy