________________
हितीयः परिच्छदः । माति मातुमशक्योऽपि यशोराशिर्यदव ते॥२१६॥ अलङ्कारान्तराणामप्येकमाहुः परायणम् । वागीशमहितामुक्तिमिमामतिशयाह्वयाम् ॥२२०॥
इति अतिशयोक्तिचक्रम् । अन्यथैव स्थिता वृत्तिश्चेतनस्यतरस्य वा। अन्यथोत्प्रेक्ष्यते यत्र तामुत्यक्षां विदुर्यथा ॥२२१॥
अहो इति आश्चर्यसूचकमव्ययम्। त्रिभुवनस्य विशालत्वमत्य चयमित्यर्थः । यद् यस्मात् अत्र त्रिभुवनोदर मातुमशः क्योऽपि ते यशोराशि: माति पर्याप्ततां गच्छति। अत्र आक्र यस्य विभुवनोदरस्य विशालत्वप्रतिपादनेन आश्रितस्य यशो राशेराधिक्यवर्णनात् आत्रयाधिक्यातिशयोक्तिः ॥ २१८ ॥ -- अस्या अलङ्कारोत्तमत्वं दर्शयति । अलङ्कारेति वागौशमहितां वाक्पतिपूजिताम् इमाम् अतिशयायाम् अतिशयाख्याम् उक्तिम् अतिशयोक्तिमित्यर्थः अलङ्कारान्तराणाम् अन्येषाम् अलङ्काराणाम् अपि एकं परायणम् परमाश्रयम् आहुः कवय इति शेषः, अस्या एव वैचित्रवातिशयमहिम्ना सर्वेषामलङ्काराणां प्रादुर्भावादिति भावः, वैचित्रातिशयाभावे विद्यमानानामपि उपमादीनां नालङ्कारता यथा गौरिव गवय इत्यादि। उक्तञ्च, कस्याप्यतिशयस्योक्तिरित्यन्वर्थविचारणात् । प्रायेणामी अलङ्कारा भिन्ना नातिशयोक्तित इति ॥ २२० ॥ __अथोत्प्रेक्षां निरूपयति अन्यथेति। चेतनस्य इतरस्थ अवेतनस्य वा प्रस्तुतस्य अन्यथा अन्येन प्रकारेण स्थिता वृत्तिः साभाविको वृत्तिः गुणक्रियादिश्च यव वैचित्रा अन्यथा अन्य