SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १३० काव्यादर्श संशयातिशयादीनां व्यक्ती किञ्चिन्निदर्यते ॥२१६॥ स्तनयोजघनस्यापि मध्ये मध्यं प्रिये । तव । अस्ति नास्तीति सन्देहोन मेऽद्यापि निवर्तते२१७ निर्णतुं शक्यमस्तीति मध्यं तव नितम्बिनि ।। अन्यथा नोपपद्येत पयोधरभरस्थितिः ॥ २१८॥ अहो विशालं भूपाल ! भुवनवितयोदरम् ।। चन्द्रातपस्य ज्योत्स्रायाः उत्कर्षवत्तया बाहुल्यं गाढ़त्वमुक्तम् । इदानीं संशयातिशयादीनां व्यक्ती व्यक्तीकरणे किञ्चित् निदयते उदाहियते इत्यन्वयः ॥ २१६ ॥ __ संशयातिशयोक्तिमुदाहरति स्तनयोरिति। है प्रिये ! तव मध्यं स्तनयोः विपुलयोरिति शेषः, जघनस्यापि विपुलखेति शेषः मध्ये अस्ति वा नास्ति इति सन्देहः मे मम अद्यापि अस्तौति ज्ञाने सत्यपौत्यर्थः न निवर्त्तते। अत्र तथाविधसंशयस्य प्रभावनौयत्वेऽपि तत्कल्पनात् मध्यदेशस्यातिक्षीणत्वं ध्वन्यते इति संशयमूलातिशयोक्तिः ॥ २१७ ॥ निर्णयातिशयोक्तिमुदाहरति निर्णेतुमिति। है नितम्बिनि ! तव मध्यं निर्णेतुं शक्यम् अस्ति अन्यथा पयोधरयोः स्तनयोः भरस्य स्थिति: न उपपद्येत मध्य नास्ति चेत् कथं पयोधरौ तदुपरि वर्त्तताम् । अत्र पयोधरयोनिरवलम्बनस्थित्यनुपपत्तेः मध्यदेशस्त्र अस्तित्वनिर्णयासम्बन्धेऽपि तत्कल्पनेन प्रतिक्षीणत्वनिर्णयात् निर्णयातिशयोक्तिरियम्॥२१॥ पाश्रयाधिक्ये अतिशयोक्तिं दर्शयति अहो इति। है भूपाल : भुवनत्रितयोदरं त्रिभुवनाभोग इत्यर्थः विशालम्
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy