________________
२१०
काव्यादर्णे
रतोत्सवानन्दविशेषमत्तया
प्रयोजनं नास्ति हि कान्तिमत्तया ॥ ४१ ॥
भवादृशा नाथ | न जानते नते
!
रसं विरुद्धे खलु सन्नतेनते ।
य एव दौनाः शिरसा नतेन ते
चरन्त्यलं देन्यरसेन तेन ते ॥ ४२ ॥
इह रतोत्सवेन यः आनन्दविशेषः तेन मत्तया सत्या अंशुमत् समुज्ज्वलं विभूषणं धार्य्यं तथाच विभूषणधारणस्य रतोत्सवानन्दविधायकताप्रयोजनं न तु शोभार्थमिति भावः । ननु शोभार्थमपि विभूषणधारणमस्तु इत्यत आह प्रयोजनमिति । कान्तिमत्तया स्वाभाविक सौन्दर्य्यवत्तया हेतुना प्रयोजनं विभूषणधारणस्येति शेषः नास्ति हि न विद्यते एवेत्यर्थः । अन्या - सक्त शठनायकमलङ्कारधारणे कथमस्या विराग इति पृच्छन्त प्रति सख्या उक्तिरियम् । अत्र सर्वेषु पादेषु मिश्र व्यवहित
मन्तभागयमकम् ॥ ४.१ ॥
भवादृशेति । हे नाथ प्रभो ! भवादृशा जनाः नतेः नतभावस्य रसम् आखादं न जानते न विदन्ति, यतः सनतता इनता प्रभुता च ते सन्नतेनते नतिः प्रभुता चेत्यर्थः विरुद्धे खलु नैकाधारे वर्त्तते इति भावः, ये जनाः दौना एव दरिद्राः केवलं, ते तेन दैन्यरसेन दैन्यरूपेण विषेण हेतुना नतेन शिरसा ते तव अलम् अत्यर्थं चरन्ति अतिशयेन त्वां सेवन्त े इत्यर्थः तवेति कर्मणि षष्ठी । अत्र सर्वेषु पादेषु मिश्रमव्यवहितञ्च अन्तभागयमकम् ॥ ४२ ॥