________________
तौय: परिच्छेदः ।
लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतम । व्याजम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन ॥ ४३॥ श्रीमानमानमरवमसमानमानमात्मानमानतजगत्प्रथमानमानम् । भूमानमानमत यः स्थितिमानमाननामानमानमतमप्रतिमानमानम् ॥ ४४ ॥ लौलेति। सा नायिका शुचिना निर्मलेन लीलास्मितेन विलासहसितेन, मृदुना उदितेन वचनेन, लघुना व्यालोकितेन अपाङ्गदर्शनेनेत्यर्थः, गुरुणा नितम्बादिभरमन्थरेण गतेन गमनेन, व्याजृम्भितेन विशेषतो जृम्भया, जृम्भायाश्च अनुरागव्यनकत्वमुक्तं यथा जृम्भते स्फोटयत्यङ्गं बालमाश्लिष्य चुम्बतौति । तथा, दर्शितेन जघनेन जघनदर्शनेनेत्यर्थः हन्ति व्यथयति मामिति शेषः, तेन च मम जीवितेन जौवनेन गलितं गतं, भावे क्तप्रत्ययः । अत्र सर्वेषु पादेषु मिश्र व्यवहितं मध्यान्तयमकम् ॥ ४३॥ ___ श्रीमाविति। हे भक्ताः ! यः श्रीमान् अमान् अपरिमितः, तथा स्थितिमान् स्थायी सच्चिदानन्दरूपतया सततमवतिष्ठते इत्यर्थः, अमरवम आकाशं तस्य समानं मानं परिमाणं यस्य तथोक्तम् आकाशवत् सर्वव्यापिनमित्यर्थः, आनतेषु प्रतीभूतेषु बमत्सु प्रथमानः विस्तारं गतः मान: सम्मानो यस्य तादृशं सर्वजगत्पूज्यमानमित्यर्थः, भूमानं महान्तम्, अमानम् अपरि