SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १५० काव्यादर्श लेशो लेशेन निर्भिन्नवस्तुरूपनिगृहनम् । 'उदाहरणमेवास्य रूपमाविर्भविष्यति ॥ २६५ ॥ राजकन्यानुरक्तं मां रोमोङ्देन रक्षकाः । अवगच्छेयुरा जातमहो शीतानिलं वनम् ॥२६६॥ आनन्दाश्रु प्रवृत्त मे कथं दृष्ट्वैव कन्यकाम् । यिता कथञ्चितू इममर्थं लक्षयितुं शक्नोतोति सूक्ष्मालङ्कारस्थावकाश इति बोध्यम् ॥ २६४ ॥ ___ इदानीमुद्देशवाक्यप्राप्तलवापरपर्सायं लेशं निरूपयति लेश इति। लेशेन किञ्चिन्मावतया निर्भिवस्य प्रकटितस्य वस्तुन: यद् रूपं तस्य निगूहनं गोपनं लेशः, उदाहरणम् एव अस्य अलङ्कारस्य रूपं स्वरूपम् आविर्भविष्यति प्रकाशिष्यते । इममेव व्याजोक्तिं वदन्ति केचित्। यथा, व्याजोक्तिश्छद्मनोशिववस्तुरूपनिगूहनम् इति। अपहृतौ लेशनिर्भिन्नवस्तुनः नापङ्गवः, इह तु तथेत्यनयोर्भेदः ॥ २६५ ॥ अनिष्टसम्भावनायां लेशमुदाहरति राजकन्येति । रोमीदभेदेन रोमहर्षेण, राजकन्याया दर्शनजनितेनेति भावः । मां राजकन्यायाम् अनुरक्तम् अभिलाषुकं रक्षका: राजान्तःपुररक्षिण: अवगच्छेयुः, सम्भावनायां विधिलिङ् । प्रा ज्ञातम्, श्रा इति सम्भमद्योतकमव्ययम् । ज्ञातं विदितं निगूहनप्रकारो ज्ञायत इत्यर्थः । ज्ञातमिति वर्तमाने क्तप्रत्ययः । अहो वनं शीत: अनिलः यत्र तत्, शौतानिलस्पर्शेन रोमाञ्चोदय इति भावः । अत्र रोमोझेदस्य शौतानिलजत्वेन अनुरागनिगूहनं वैचित्रामावहतीति अस्यालङ्कारत्वम् ॥ २६६ ॥ लज्जायां लेशमुदाहरति आनन्दाशु इति। कन्यका दृष्देव
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy