________________
हितीयः परिच्छेदः। १५१ अक्षि मे पुष्परजसा वातोडूतेन दूषितम् ॥२६७॥ इत्येवमादिस्थानेऽयमलकारोऽतिशोभते । लेशमेक विदुर्निन्दा स्तुतिं वा लेशतः कृताम् २६८ युवैष गुणवान् राजा योग्यस्ते पतिरूर्जितः । रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि ॥२६॥ मे मम कथम् आनन्दाश्रु प्रवृत्तम् अत्र कन्यादर्शनेन अनुरागोदयात् आनन्दाश्रुप्रवृत्तिर्लज्जाकरोति भावः । अत्र निगूहनप्रकारमाह अक्षौति । वातोडूतेन पवनचालितेन पुष्परजसा कुसुमपरागण मे अक्षि दूषितम्। अत्र आनन्दाश्रुणोऽक्षिदूषणजत्वप्रतिपादनेन अनुरागः संवृत्त इति ॥ २६७ ॥
अस्यालङ्कारत्वं प्रतिपादयवाह इतौति । इत्येवमादिस्थाने एवमायुदाहरणे अयम् अलङ्कारः अतिशोभते सहृदयचमत्कारितया समुल्लसति। एके पण्डिताः लेशं लेशत: छलेन कतां निन्दां वा स्तुतिं व्याजस्तुतिमित्यर्थः विदुः। तदुक्तं, दोषस्य यो गुणीभावो दोषीभावो गुणस्य यः। स लेश: स्यात् ततो नान्या व्याजस्तुतिरपोष्यत इति। अनेनैव व्याजस्तुत्यलकारोऽभिहित इति भावः ॥ २६८ ॥
स्तुतिव्याजेन निन्दामाह युवेति । एष राजा युवा गुणवान् तथा ऊर्जितः विक्रान्तः, अतः ते तव योग्यः पतिः। यस्य मनः कामोत्सवादपि रणोत्सवे सक्तम्। स्वयंवरां कन्यां प्रति तत्सख्या उक्तिरियम् । अत्र हितीयाः महावीरत्वेन स्तुतिर्बोधितापि कामोत्सवे अनासक्तत्वप्रतिपादनव्याजेन तव सम्भोगसुखं दुर्लभम् प्रतो नायं वरणीय इति द्योतयतीति स्तुत्या निन्दावगमात् व्याजस्तुतिः ॥ २६८ ॥