________________
काव्याद” हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा। हन्यते चारसर्वाङ्गी हन्यते मञ्जुभाषिणी ॥१३८॥ निर्णयार्थ प्रयुक्तानि संशयं जनयन्ति चेत् । वचांसि दोष एवासी ससंशय इति स्मृतः ॥१३६॥ मनोरथप्रियालोकरसलोलेक्षणे । सखि ।। पारात् वृत्तिरसौ माता न क्षमा द्रष्टुमोदृशम् १४०
कम्पाद्यतिशयः अनुकम्पादौनाम् अतिशयः प्रकृतस्येति शेषः विवक्ष्यते वक्तुमिष्यते, तदा पुनरुक्तोऽपि न दोषः, प्रत्युत अलकिया अलङ्कारः काव्यशोभाधायकत्वात्। यदुक्तं गुण इत्यधिकृत्य दर्पणकारण, कथितञ्च पदं पुनः । विहितस्यानुवाद्यत्वे विषादे विस्मये क्रुधि । दैन्येऽथ लाटानुप्रासेऽनुकम्पायां प्रसादने। अर्थान्तरसंक्रमितवाचे हर्षेऽवधारणे इति । एवञ्च उन्मत्तायुक्तावपि पौनरुत्यं गुण एवेति जेयम् ॥ १३७ ॥
अनुकम्पायामुदाहरति हन्यते इति । सा वरारोहा - काण्डवैरिणा अकारणरिपुणा स्मरेण कामेन हन्यते, सा चारुसर्वाङ्गी हन्यते, सा मञ्जुभाषिणी हन्यते। अत्र हन्यते इति क्रियावाचकं पदं पुनः पुनरुतमपि प्रस्तुताया नायिकाया अनुकम्पनीयत्वादिप्रकटनात् वैचितामेव जनयतीति नात्र दोषावहम्। एवमन्यत्रापि उदाहरणानि मृग्याणि ॥ १३८ ॥
ससंशयं निरूपयति निर्णयार्थमिति। निर्णयार्थ निश्चयार्थं प्रयुक्तानि वचांसि चेत् यदि संशयं जनयन्ति सन्देहयन्ति, प्रसौ एव दोषः ससंशयः, ससंशयदोषेण लिप्त इत्यर्थः ॥ १३८ ॥
ससंशयमुदाहरति मनोरथेति। है मनोरथप्रियालोक