SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १४४ काव्यादर्भ बनान्यमूनि न गृहाण्येता नद्यो न योषितः । . मृगा इमे न दायादास्तन्मे नन्दति मानसम् २४६ अत्यन्तमसदाऱ्याणामनालोचितवेष्टितम् । अतस्तेषां विवईन्ते सततं सर्वसम्पदः ॥ २५० ॥ उद्यानसहकाराणामनुझिन्ना न मञ्जरी। दयः पथिकनारीणां सतिलः सलिलाञ्जलिः॥२५१ अन्योन्याभावमुदाहरति वनानौति। अमूनि वनानि, गृहाणि न, एता नद्यः, योषितः न इमे मृगाः, दायादाः न, तत् तस्मात् मे मम मानसं नन्दति, ग्रहाश्रमाद वानप्रस्थाश्रम गतस्योक्तिरियम् । अत्र वनग्रहादीमाम् अन्योन्यभेदेन मानसनन्दने अन्योन्याभावरूपहेतुत्वम् ॥ २४८ ॥ अत्यन्ताभावमुदाहरति अत्यन्तमिति। आर्याणां साधनाम् अनालोचितचेष्टितम् अविमृष्यकारित्वम् अत्यन्तम् असत् अविद्यमानं नास्तीत्यर्थः, अतस्तेषां सर्वसम्पदः सततं विवईन्ते। अत्र अविमृष्थकारिताया अत्यन्ताभावः सर्वसम्पदृष्टी हेतुरिति ॥ २५० ॥ सम्प्रति अभावाभावरूपं हेतुं दर्शयति उद्यानेति । उद्यान सहकाराणाम् उपवनचूतानां मञ्जरी न अनुद्भिवा अपितु उद्भिन्ना, अतः पथिकनारीणां प्रोषितभर्तृकाणां सतिलः सलिलाञ्जलि: देयः, चूतमचर्युद्धेदेन वसन्तोदयात् तस्य च सातिशयोद्दीपकत्वात् तादृशीनां मरणमुपस्थितमिति ध्वन्यते। अत्र मनरीणामुद्भेदाभावस्य अभावरूपो हेतुरिति अभावा: भावस्य हेतुत्वम् ॥ २५१ ॥
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy