________________
हितीयः परिच्छेदः ।
अनभ्यासेन विद्यानामसंसर्गेण धीमताम् । अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम्॥२४७॥ गतः कामकथोन्मादो गलितो यौवनज्वरः । गतो मोहता तृष्णा कृतं पुण्याश्रमे मनः ॥ २४८ ॥
१४३
3
अभावरूपाः मनोहराः केचित् हेतवच व्याक्रियन्ते उच्चन्ते
॥ २४६ ॥
अभावरूपाश्च हेतवश्चतुर्विधाः प्रागभावः ध्वंसाभावः अन्योन्याभावः अत्यन्ताभावश्चेति मनसि कृत्वा क्रमेण उदाहरिष्यन् प्रथमं प्रागभावमाह अनभ्यासेनेति । विद्यानाम् अनभ्यासेन अशिक्षया, धीमतां साधूनाम् असंसर्गेण तथा अक्षाणाम् इन्द्रियाणाम् श्रनिग्रहेण असंयमेन हेतुना नृणां व्यसनं स्त्रोपानाद्यष्टादशविधं दुष्षु वृत्तिरिति यावत् जायते । उक्तञ्च मनुना व्यसनप्रस्तावे, मृगयाक्षो दिवास्वप्नः परीवादः स्त्रियो मदः । तौर्य्यत्रिकं वृथाव्या च कामजो दशको गणः । पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टक इति । अत्र पूर्वं विद्याभ्यासाद्यभाव व्यसनोत्पत्तिरिति विद्याभ्यासादीनां व्यसनं प्रति प्रागभावरूपहेतुत्वम् ॥ २४७ ॥
प्रध्वं समुदाहरति गत इति । कामकथया उन्मादः उन्मतता गतः, यौवनन्वरः गलितः, मोह: अज्ञानं गतः, तृष्णा वासना च्युता, अतः पुण्याश्रमे सन्यासाश्रमे मनः कृतम् अर्पितम् । अत्र कामकथादीनां ध्वंसरूपस्य अभावस्य पुण्याश्रमगमने हेतुत्वम् ॥ २४८ ॥