________________
काब्बादमें
गतोऽस्तमर्को भातीन्दर्यान्ति वासाय पचिणः । इतीदमपि साध्वेव कालावस्थानिवेदने ॥ २४४॥ अबध्यैरिन्दुपादानाम साध्यैश्चन्दनाम्भसाम् । देहोष्मभिः सुबोधं ते सखि ! कामातुरं मनः २४५ इति लक्ष्याः प्रयोगेषु रथ्या ज्ञापकहेतवः । अभावहेतवः केचिद् व्याहियन्ते मनोहराः ॥ २४६॥
१४२
ज्ञापकहेतुमुदाहरति गत इति । अर्कः अस्त ं गतः, इन्दुः भाति, पक्षिणः वासाय वासस्थानाय यान्ति गमनार्थयोगे कर्मणि चतुर्थी । इति उक्तरूपम् इदं गतोऽस्तमर्क इत्यादिकं कालावस्थायाः कालविशेषस्य सन्ध्याया इत्यर्थः निवेदने ज्ञापने साधु एव वैचित्राजनकत्वात् उत्कृष्टोप्राय इत्यर्थः, अर्कस्यास्तमितत्वादिः ज्ञापको हेतु:, ज्ञाप्या च सन्ध्या अत्र तु ज्ञाप्यस्य अशब्दत्वात् प्रतीयमानत्वम् । सन्ध्या वर्त्तते इत्यादौ तु नालङ्कारता वैचित्रयाभावादिति बोध्यम् ॥ २४४ ॥
नाप्यस्य शाब्दत्वे उदाहरति अबध्यैरिति । हे सखि ! ते तव कामातुरं विरहाकुलं मनः इन्दुपादानां चन्द्रकिरणानाम् अबध्यैः अनाश्यैः, तथा चन्दनाम्भसां चन्दनाक्तजलानाम् असाध्यैः अप्रतिकार्यैः देहस्य उष्मभिः सन्तापैः सुबोधं सुखेन ज्ञेयम् । अत्र कामातुरं मनोरूपं ज्ञाप्यं शब्द देहतापाच ज्ञापकाः । अत्र च वैचित्त्रयविशेषवत्त्वा एवास्यालङ्कारस्य विषय इति ॥ २४५ ॥
इतीति । इति एवंरूपा: ज्ञापक हेतवः रम्याः सहृदयचम कारकाः प्रयोगेषु कवीनां निबन्धेषु लक्ष्याः ज्ञातव्याः,