SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः । प्रागभावादिरूपस्य हेतुत्वमिह वस्तुनः । भावाभावस्वरूपस्य कास्योत्पादनं प्रति ॥ २५२ ॥ १४५ दूरकायैस्तत्सहनः कार्य्यानन्तरजस्तथा । अयुक्तयुक्तकार्य्यं चेत्यसंख्याश्चिवहेतवः ॥ २५३ ॥ तेऽमो प्रयोगमार्गेषु गौणवृत्तिव्यपाश्रयाः । अत्यन्तमुन्दरा दृष्टास्तदुदाहृतयो यथा ॥ २५४ ॥ अभावहेतुमुपसंहरति प्रागिति । इह उदाहरणेषु इत्यर्थः । भावाभावस्वरूपस्य भावरूपस्य अभावरूपस्य च काय्र्यस्य उत्पादनं प्रति प्रागभावादिरूपस्य वस्तुनः विषयस्य हेतुत्वं दर्शितमिति शेषः ॥ २५२ ॥ इति । अधुना चित्राख्यहेतुभेदान् निर्दिशति दूरका दूरे कार्य्यं यस्य सः, तत्सहजः तेन कार्येण सह जातः, , कार्यान्तरजः कार्य्यान्तरं जातः, अयुक्तकार्य्यः त्रयुक्तम् अनुचितं कार्य्यं यस्य सः, तथा युक्तकाय्र्यः युक्तम् उचितं कार्यं यस्य सः, इति एवंप्रकाराः असंख्या: संख्यातीताः बहुविधा इत्यर्थः चित्रहेतवः चित्राख्याः हेतवः । उक्तञ्च भोजराजेन, क्रियायाः कारणं हेतुः कारको ज्ञापकस्तथा । प्रभाववित्रहेतुख चतुविध इष्यते इति ॥ २५३ ॥ तेऽमीति । ते पूर्वोक्ता अमी चित्रहेतवः गौणी या वृत्तिः सादृश्यनिबन्धना लक्षणा सैव व्यपाश्रयः अवलम्बनं येषां तादृशाः तादृशलक्षणा वृत्तिनिबन्धनाः प्रयोगाणां निबन्धानां मार्गेषु रीतिषु अत्यन्तसुन्दराः अतिमनोहराः दृष्टाः, यथा तेषामुदाहृतयः उदाहरणानि वच्यमाखानीत्यर्थः ॥ २५४ ॥ १३
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy