________________
१४६
काव्यादर्श
त्वदपाङ्गावयं जैवमनङ्गास्वं यदङ्गने ! ।
मुक्तं तदन्यतस्तेन सोऽप्यहं मनसि क्षतः ॥ २५५ ॥ आविर्भवति नारीणां वयः पर्यस्तशैशवम् । सहैव विविधैः पुंसामङ्गजोन्मादविभ्रमैः ॥ २५६ ॥ पश्चात् पर्य्यस्य किरणानुदौर्गं चन्द्रमण्डलम् । प्रागेव हरिणाक्षीणामुदोर्णो रागसागरः ॥ २५७॥
दूरकार्य्यमुदाहरति त्वदपाङ्गाह्वयमिति । हे अङ्गने ! चार्वङ्गि ! यत् तत् प्रसिद्धं जैत्रं जयसाधनं तव अपाङ्गाख्यम् अपाङ्गरूपम् अनङ्गस्य कामस्य अस्त्रम् अन्यतः अन्यस्मिन् जमे मुक्तं पातितं त्वयेति शेषः तेन अस्त्रेण सः लक्ष्यभूतः जनः तथा अहमपि अलक्ष्यभूत इत्यर्थः मनसि चतः विचः । अत्र अस्त्रस्य लक्ष्यवेधरूपं कार्य्यं विहितम् अलक्ष्यवेधरूपन्तु दूरवर्त्ति इति हेतोरस्तस्य दूरकार्यत्वं तस्य चासम्भवाञ्चितमिति ।। २५५ ॥
तत्सहज मुदाहरति आविर्भवतीति । नारीणां पर्य्यस्तं निराकृतं शैशवं येन तादृशं वयः यौवनमित्यर्थः पुंसां विविधैः अङ्गजेन कामेन यः उन्मादः तस्य विभ्रमैः सहैव आविर्भवति । अव नारीणां यौवनरूपस्य हेतोस्तत्काय्यभूत पुरुषविश्वमैः महाविर्भावात् तत्सहजत्वं तच्च कार्यकारणयोर्योगपद्येन वैचिवयातिशयसूचनात् चित्रम् ॥ २५६ ॥
कार्य्यानन्तरजमुदाहरति पञ्चादिति ।
हरिणाक्षीणां
रामसागरः प्रमानुरागसमुद्रः प्रागेव उदीर्णः उच्छलितः स्फीत इत्यर्थः, पञ्चात् किरणान् पर्यस्य उत्क्षिप्य चन्द्रमण्डलम्