________________
हितीयः परिच्छेदः ।
१४७ राज्ञां हस्तारबिन्दानि कुट्मलीकुरुते कुतः । देव ! त्वच्चरणहन्दुरविबालातपः स्मशन् ॥ २५८ ॥ पाणिपद्मानि भूपानां सङ्कोचयितुमौशते । त्वत्पादनखचन्द्राणामर्चिषः कुन्दनिर्मलाः ॥२५६॥ इति हेतुविकल्पानां दर्शिता गतिरीदृशी।
इति हेतुचक्रम् । उदौर्णम् उदितम् । अत्र चन्द्रोदयस्य रागोहीपकत्वात् कारपस्य तत्कार्य्यस्य च रागस्य पश्चाजातत्वेन कार्यानन्तरनत्व तञ्च कार्यकारणयोरग्रपश्चाद्भावप्रतिपादनेन समधिकं वैचित्रामावहतौति चित्रम् ॥ २५७ ॥
अयुक्त कार्य्यमुदाहरति राज्ञामिति। हे देव ! तव चरणइन्वमेव रविः तस्य बालातप: नवोदितार्कमयूखः अत्र चरणराग बालातपत्वारोषात् अतिशयोक्तिरूपालङ्कारो व्यज्यते । राज्ञां हस्ता एव अरविन्दानि तानि स्पृशन् कुतः कुद्मलोकुरुते मुकुलौकरोतीत्यर्थः बालातपस्पर्शात् अरविन्दानां विकास एव भवति न तु सङ्कोचः, अत्र कारणस्य तस्य तत्सङ्कोचरूपकार्यमयुक्तमिति अयुक्त कार्यत्वं तच राजविषयकरतिभावस्य सातिशयचमत्कारविषयत्वात् अतिमनोरममिति चित्रम् ॥२५८॥
युक्तकार्यमुदाहरति पाणिपद्मानौति। कुन्दनिर्मलाः कुन्दपुष्पधवलाः तव पादनखरूपचन्द्राणाम् अर्चिषः भूपानां पाणिरूपाणि पद्मानि सङ्कोचयितुम् ईशते प्रभवन्ति। अत्र चन्द्रकिरणरूपकारणस्य पद्मनिमोलनकायं युक्तं तच्च राजविषयिणो रतिभावस्थ व्यसकतया सातिशयां चमत्कतिपदवीमारोहतौति चित्रम् ॥ २५८ ॥