SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ काव्यादर्थे इङ्गिताकारलक्ष्योऽर्थः सौक्ष्मात् सूक्ष्म इति स्मृतः ॥२६०॥ कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेक्ष्य कान्तमबला लीलापद्मं न्यमीलयत् ॥ २६१ पद्मसम्मौलनादव सूचितो निशि सङ्गमः । श्राश्वासयितुमिच्छन्त्या प्रियमङ्गजपौड़ितम् ॥ २६२॥ १४८ हेतुमुपसंहरति इतीति । हेतोर्विकल्पानां प्रभेदानाम् इति पूर्वोक्तप्रकारा गतिः दर्शिता । अनयैव रीत्या अन्येऽपि प्रभेदाः ज्ञातव्या इति भावः । इति हेतुचक्रम् | अथ सूक्ष्मं निरूपयति इङ्गितेति । अभिप्रायप्रकाशकचेष्टाविष्कारः इङ्गितं हृतो भाव इति विश्वः । आकारः अवस्थाविशेषव्यच्चकमुखरागादिः, स्यादाकारोऽङ्गवैकृतमिति वोपालितः । एताभ्यां लक्ष्यः अनुमेयः अर्थः विषयः सौक्ष्मात् दुर्ज्ञेयत्वात् सूक्ष्म इति स्मृतः । प्रकाशकारस्तु, कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते । धर्मेण केनचिद यत्र तत् सूक्ष्मं परिचचते इत्याह । संलक्षितस्तु सूक्ष्मोऽर्थ आकारेणेङ्गितेन वा । कयापि सूच्यते भया यत्र सूक्ष्मं तदुच्यत इति दर्पणकारः ॥ २६० ॥ S इङ्गितलक्ष्यं सूक्ष्ममुदाहरति कदेत्यादि । कदा कस्मिन् समये नौ आवयोः सङ्गमो भावी इति आकीर्णे जनबहुले स्थाने वक्तुमचमं कान्तम् अवेक्ष्य अवला कामिनी लीलापद्मं क्रीड़ाकमल न्यमीलयत् समकोचयत्। अत्र अङ्गजपौड़ितं
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy