________________
द्वतीयः परिच्छदः ।
२३३
मद नो मदिराक्षीणाम पाहा स्वोज ये द यम् । ++ ++ ++ + + + ++ + ++++ म दे ना यदि त त्क्षीण म न ङ्गा याञ्जलिं द दे७६
इति गोमूबिका। प्राहुरईभ्रमं नाम श्लोकाईधमणं यदि । तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वत: ॥ ८ ॥
अईगोमूत्रिकामुदाहरति मदन इति। अयं मदनः मदिराक्षीणां मत्तखञ्जननयनानाम् अपाङ्गमेव अस्त्रं यस्य तथाभूतः सन् यदि जयेत् मां प्रहरेत्, तत् तदा मदेनः मम पापं क्षीणं स्यादिति शेष: तदा च अनङ्गाय अहम् अञ्जलिं ददे पुष्पाञ्जलिं ददामि इत्यर्थः यदि अहं कामिनीभिः सकटाक्षमौक्ष्य तदा कृतार्थी भवामि इति भावः। अत्र अईयोर्विषमवर्णानि एकरूपाणि, तथा उत्तराईस्य विषमाक्षराणि पूर्वाईस्य समाक्षराणि यथाक्रममावर्त्तनीयानि अपि श्लोकरूपाणि इति अईगोमूत्रिका। एतहिपरीतानि अपि उदाहरणानि सम्भवन्ति तानि च मृग्याणीति ॥ ७८ ॥ ___ अथ अईभ्रमं सर्वतोभद्रञ्च निरूपयति प्राहुरिति । श्लोका भ्रमणं श्लोकस्य अर्द्धण अईमार्गेण अनुलोमेनेति शेषः यदि भ्रम भ्रमणेन पादोपस्थितिरिति यावत् तदा अईभ्रमं नाम चित्रं प्राहुः । यदि सर्वतः अनुलोमप्रतिलोमाभ्यां मार्गाभ्याम् इत्यर्थः भ्रमणं तदा तत् सर्वतोभद्र नाम चित्रम् इष्टम् । तथाहि, विविधमिदम् अष्टाक्षरवृत्तिघटितमेव प्रायशो दृश्यते, तत्र प्रथम चतुःषष्टिः कोष्ठानि अष्टपङ्क्तिघटितानि लेख्यानि, ततः पाद्यपङ्क्तिचतुष्टये क्रमेण पादचतुष्टय वर्णा निवेशनीयाः,