________________
२३२
काव्यादर्श वर्णानामेकरूपत्वं यत्त्वेकान्तरमईयोः । गोमूविकेति तत् प्राहुर्दुष्करं तद्विदो यथा ॥७८॥
शोकस्य विरहदुःखस्य विरामः अवसानं यस्याः तादृशौ न भवतीति शेषः सततं विरहदुःखमनुभवतीत्यर्थः, तथा दिनामयमायामा, दिने दिवसे यः प्रामयः रोगः तस्य मायां छलम् अमति गच्छति प्रकाशयतीत्यर्थः दिवसे सखौनां समक्ष रोगछलेन विरहदुःखं गोपयन्तौ तिष्ठतौत्यर्थः किञ्च नासनाजनना नास्ति आसनाया उपवेशनस्य जननं क्रिया यस्याः तथोक्ता अस्थिरत्वात् विरहदुःखेनैकत्र उपविशतीत्यर्थः, पुनश्च अयनमानया अयनस्य मद्गमनस्य मानं ज्ञानं यातीति तथोक्ता मदीयगमनवमनिरीक्षमाणा तिष्ठतौत्यर्थः । सखायं प्रति अनुरागिण्यां वेश्यायामासक्तस्योक्तिरियम् । अत्र श्लोकस्य प्रतिलोमनावृत्त्या श्लोकान्तरपूरणात् श्लोकगोचरं प्रतिलोमयमकम् ॥ ७७॥ ___ अथ चित्रालङ्कारान् कांश्चित् निरूपयिष्यन् प्रथमं गोमूत्रिकां निर्दिशति वर्णानामिति। अईयोः श्लोकस्य यथाक्रम पूर्वार्दोत्तराईयोः एकान्तरम् एकाक्षरव्यवहितं यत् एकरूपत्वम् अभिवाकारत्वं दुष्करं सहसा कर्तुमशक्य तद्विदः चित्रालङ्कारजाः गोमूत्रिका चलतो गोमूत्राकारत्वेन घटितत्वात् गोमूत्रिकासंगं प्राहुः । तदित्यत्र तमिति च पाठः, तदा तम् अलङ्कारमित्यर्थः । गोमूत्रिका च त्रिविधा पादगोमूत्रिका, अईगोमूविका, श्लोकगोमूत्रिका च। इयन्तु अईगोमूत्रिकेति वेदितव्या। यथेति उदाहरणार्थम् ॥ ७८ ॥