________________
वतीयः परिच्छदः।
यानमानय माराविकशोनानजनासना। यामुदारशताधौनामायामायमनादि सा ॥ ७६ ॥ सा दिनामयमायामा नाधीता शरदाऽमुया । नासनाजनना शोकविरामायनमानया ॥ ७७॥
यमकचक्रम् ।
योगिनो वचनमिदम्। अत्र श्लोकाईस्य प्रतिलोमावृत्त्वा' नोकाईान्तरं निष्पवमिति प्रतिलोमयमकं श्लोकाईविषयम् ॥ ७५ ॥
लोकगोचरं प्रतिलोमं दर्शयति यानमिति। हे सखे ! इति अध्याहार्य, त्वं यानं वाहनं अखाद्यन्यतममित्यर्थः आनय। किमित्याह यामिति। अहम् उदारशता नाम् उदाराणां महतां धनिनामित्यर्थः शतम् अधीनं यस्यास्तादृशीं यां वेश्यामित्यर्थः प्रायां गतवानस्मि, माराविकशा मारः काम एव अविर्मेषः तस्य ताड़नी कामिनां कामातिहन्त्रीत्यर्थः तथा ऊनः होन: धनाभावादिति भावः अन: प्राणः येषां ते ऊनानाः धनहीना इत्यर्थः ते च ते जनाश्चेति जनानजनाः तान् अस्यात निरस्यतौति ऊनानजनासना निर्धनान् वहिष्कुर्वतीत्यर्थः सा वेश्या आयम् आगमनम् अनादि उत्ता मयेति शेषः अद्य तव सन्निधावागमिष्यामीति अभिहिता इत्यर्थः ॥ ७६ ॥
सापि मय्यनुरागिणीत्याह सेति। सा वेश्या अमुया उपस्थितया इत्यर्थः शरदा शरत्कालेन आधीता आधिं मन:पौड़ा महिरहेणेति भावः इता प्राप्ता अतएव शोकविरामा