________________
काव्यादर्थं
नादिनो मदनाधी खा न मे काचन कामिता । तामिका न च कामेन खाधीना दम नोदिना ॥७५
२३०
अकरणामर ! अकरणे अकार्यानुष्ठाने अमर: देवसदृश इत्यर्थः तत्सम्बुद्धौ, देवानामकार्यकरण महल्या जारत्वादिकं बोध्यं तथा हे रमण ! ते तव आरकता ऋच्छतीति आरकः ऋण्गतावित्यस्मात् णकप्रत्ययः । यस्य भावः आरकता यथेच्छागामिता इत्यर्थः अस्तु भवतु त्वं यां कामयसे तामेव ब्रज नाव स्थातव्यमिति भावः । मानिन्या नायकं प्रति सकोपोतिरियम् । अत्र प्रथमपादस्य प्रतिलोमावृत्त्या द्वितीयपादस्तथा द्वितीयस्य प्रतिलोमावृत्त्या प्रथमपादः, एवं तृतीयचतुर्थयोरपि, तेनात्र पादविषयं प्रतिलोमयमकम् ॥ ७४ ॥
श्लोकाईविषयमुदाहरति नादिन इति । नादिनः नादरूपं ब्रह्म अस्यास्तीति तथोक्तस्य नादब्रह्मानुध्यानरतस्य इत्यर्थः मे मम मदनाधी मदनश्च श्रधिश्व तौ कामः कामजनिता मानसी व्यथा चेत्यर्थः तथा खा निजा काचन कामिता विषयाभिलाषश्च न विद्यते इत्यर्थः तथा दमः इन्द्रियसंयमः तं नुदति निरस्यतीति तथेोक्तेन इन्द्रियसंयमध्वंसकारिणा कामेन च स्वाधीना स्वम् आत्मा अधीनं यस्यास्तादृशी आत्मव्याकुलकारिणी तासिका ताम्यति अनयेति तम्धातोर्भावे णकप्रत्ययः स्त्रीत्वञ्च । ग्लानिरित्यर्थः नास्तीत्यर्थः । तथाच, कामः कामपौड़ा विषयाभिलाषः ग्लानिश्चेति चत्वारो मम न विद्यन्ते इति निष्कर्षः । नादोत्पत्तिश्वोक्ता सुरेश्वराचार्येण यथा सरेचपूरैरनिलस्य कुम्भैः सर्वासु नाड़ीषु विशोधितासु । अनाहतादम्ब, रुहादुदेति । स्वात्मावगम्यः स्वयमेव नाद इति ।