________________
टतीयः परिच्छेदः ।
२२८ आवृत्तिः प्रातिलोम्येन पादाईश्लोकगोचरा। यमकं प्रतिलोमत्वात् प्रतिलोममिति स्मृतम्॥७३॥ या मताश ! कृतायासा सायाता कृशता मया । रमणारकता तेऽस्तु स्तुतेताकरणामर ! ॥ ७४ ॥ प्रथमे पादे अव्यवहितमादिमध्ययमकं, पादानाञ्च सन्धिषु अव्यवहितमन्तादियमकं सन्दंशयमकञ्च। तीये च पादे एकवर्ण व्यवहितं सह सहेति चतुर्थे च वर्णद्दयव्यवहितं धुरा धुरेति मध्ययमकम्। इत्थं बहूनां विजातीयानां संमिश्रणमत्र इत्यवधेयम् ॥ ७२ ॥ ___ इस्थम् अनुलोमे यमकभेदानुक्वा इदानी प्रातिलोम्ये दर्शयन्नाह आवृत्तिरिति। प्रातिलोम्येन वैपरीत्येन पादाईश्लोकगोचरा पादगोचरा, अईगोचरा, श्लोकगोचरा च एवं त्रिविधा आवृत्तिः प्रतिलोमत्वात् प्रतिलोमं यमकम् इति स्मृतम्। तथाच यत्र पूर्वपादस्य प्रतिलोमावृत्त्या उत्तरपादः, पूर्वाईस्य प्रतिलोमावृत्त्या उत्तराई तथा एकस्य श्लोकस्य प्रतिलोमावृत्त्या श्लोकान्तरं निष्पद्यते तत् प्रतिलोममिति निष्कर्षः । तस्य चोक्तरीत्या वैविध्यम् ॥ ७३ ॥ ___पादगोचरामुदाहरति येति। हे मताश ! मता ज्ञाता आशा अन्यासङ्गविषयिणी तस्य तत्सम्बुद्धौ मया या कशता क्षीणता कृतायासा कृतः आयासः क्लेशः यया तथोक्ता, सा आयाता प्राप्ता तव दुश्चेष्टितेन महान् ले शोऽनुभूत इदानीमपि यथारुचि क्रियतामित्यर्थः । हे स्तुतेत ! स्तुतं स्तवम् इतः प्राप्तः स्तवाह इत्यर्थः अथवा स्तुतात् इत: च्युतः अस्तवाहः निन्दिताचरणात् अप्रशंसनीय इत्यर्थः तत्सम्बुद्धौ हे