SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ काध्यादथे. धराधराकारधराधराभुलां भुजा महीं पातुमहीनविक्रमाः । क्रमात् सहन्ते सहसा हतारयो रयोडुरा मानधुरावलम्बिनः ॥ ७२ ॥ . समानय, असमानया, समानया, समानया, समान, या समानया इति। हे समानयाम ! समान: यास: यत्नः यस्य तसम्बुद्धी, सर्वत्र तुल्ययत्न इत्यर्थः तथा समान ! समदर्शिन् ! सर्वत्र आत्मवद्दर्शन इत्यर्थः असमानया निरुपमया, समानया मानवत्या समानया सम्माननीयया अनया नायिकया मा मां समानय सङ्गमय, या नायिका समानया मा लक्ष्मीः शोभा नयः नौतिः विद्या इत्यर्थः ताभ्यां सह वर्तमाना सुन्दरी विदुषी चेत्यर्थः, अतोऽस्याः सङ्गमो अतीवादरणीय इति भावः । अत्र पादचतुष्टयाभ्यासे पादखण्डस्यापि अभ्यासात् महायमकम् ॥ ७१ ॥ पूर्व सजातीयसंमिश्रजनितप्रभेदा दर्शिता इदानीं विजातीयमिश्रणोदाहरणं दर्शयति धरेति। धराधराकारधराः धारायाः धर' नागराजः तस्य आकार: धराधराकारः तस्य धरा: पतिदीर्घा इत्यर्थः, अहौनविक्रमाः अहोनः अनल्पः विक्रमः येषां ते, अथवा अहौनस्य अहौनामौखरस्य विक्रम इव विक्रमो येषां तादृशाः, सहसा हतारयः हता नाशिता परयः शत्रवः यः तथोक्ता: रयोडुराः रयेण वेगेन उडुराः उत्कटाः अतिवेगवन्त इत्यर्थः तथा मानधुरावलम्बिन: मानस्य धुरां भारम् अवलम्बन्त इति तथाभूताः धराभुजां राज्ञां चुनाः क्रमात् महीं पातुं पालयितुं महन्त क्षमत। अत्र
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy