________________
काव्यादर्श
असावनादराचेपो यदनादरवद् वचः । प्रियप्रयाणं रुन्धत्या प्रयुक्तमिह रक्तया ॥ १४० ॥ गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः । ममापि जन्म तवैव भूयाद् यव गतो भवान्॥ १४१ इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना । स्वावस्थां सूचयन्त्यैत्र कान्तयावा निषिध्यते ॥ १४२॥
१.४
जीवितामा जीवनेच्छा बलवती दोर्घकालं जीवितुमिच्छामि इत्यर्थः धनाशा मम दुर्बला तव विदेशगमने धनलाभो भवयति इत्येषा आकाङ्क्षा मम नास्तीत्यर्थः अतः गच्छ वा तिष्ठ, स्वस्य अवस्था अभिप्राय इत्यर्थः निवेदिता कथिता । इह रक्तया अनुरागिण्या प्रियप्रयाणं पत्युर्विदेशगमनं रुन्धत्या वारयन्त्या कयाचित् यत् यस्मात् अनादरवत् अनास्थाव्यञ्जकं वचः प्रयुक्तम् अतः असौ अनादराक्षेप इति ॥ १३८ ॥ १४० ॥ आशीर्वचनाक्षेपमुदाहरति गच्छेत्यादि । हे कान्त ! गच्छसि चेत् गच्छ, ते तव पन्थानः शिवाः निर्विघ्नाः सन्तु, किन्तु, यत्र भवान् गतः तत्रैव ममापि जन्म भूयात्, अयं भावः तव गमनानन्तरमेव मम मरणं भविष्यति, मृतायाश्च 'अवश्यं जन्म भविता, तत् तु तव सन्निधौ भवति चेत् पुनस्त्वद्दर्शनं लप्सा इति । अत्र आशीर्वादवर्त्मना आशीर्वचनरीत्या स्वावस्थां सूचयन्त्या कान्तया यत् यस्मात् कान्तस्य यात्रा विदेशगमनं निषिध्यते अतः अयम् श्राशीर्वचनाचेपः
॥ १४१ ॥ १४२ ॥