________________
द्वितीयः परिच्छेदः ।
इत्यनुज्ञामुखेनैव कान्तस्याचिप्यते गतिः । मरणं सूचयन्त्यैव सोऽनुज्ञाक्षेप उच्यते ॥ १३६ ॥ धनञ्च बहु लभ्यं ते सुखं चेमञ्च वर्त्मनि ।
न च मे प्राणसन्देहस्तथापि प्रिय । मामगाः १३७
•
१०३
इत्याचक्षाणया हेतून् प्रिययात्रानुबन्धिनः । प्रभुत्वेनैव रुइस्तत् प्रभुत्वाक्षेप उच्यते ॥ १३८॥ जीविताशा बलवती धनाशा दुर्बमा मम । गच्छ वा तिष्ठ वा कान्त ! स्वावस्था तु निवेदिता १३६ त्ययस्य अवश्यम्भावादिति भावः । यदि त्वं यास्यसि तदा यातव्यं याहीत्यर्थः, ते तव अत्र मद्दिषये आशङ्कया अलम् । va विरहवेदनया मरणं सूचयन्त्या कयाचित् अनुज्ञामुखेन विदेशगमनानुमत्या एव कान्तस्य गतिः विदेशगमनम् अक्षिम्यते निषिध्यते, अतः सः अनुज्ञाक्षेप इत्युच्यते ॥ १३५ ॥ १३६ ॥
प्रभुत्वाक्षेपमुदाहरति धनञ्चेत्यादि । हे प्रिय ! ते विदेशगमने इति अध्याहार्य्यं बहु धनं सुखञ्च तथा वर्त्मनि पथि क्षेमं कुशलञ्च लभ्यम्, अत्र च मे प्राणसन्देहः न तव शीघ्र - प्रत्यागमनस्य बहुधनलाभस्य च सम्भवादिति भावः, तथापि मास्म गा मा मच्छ । अत्र प्रिययात्रायाः प्रियस्य विदेशगमनस्य अनुबन्धिनः पोषकान् हेतून् आचक्षाणया कौर्त्तयन्त्या कयाचित् स्वाधीनपतिकया इति शेषः प्रभुत्वेन स्वाधीनतया एव पतिः रुद्धः विदेशगमनात् निवर्त्तितः तस्मात् एषः प्रभुत्वाक्षेप उच्यते ॥ १३७ ॥ १३८ ॥
अनादराक्षेपमुदाहरति जीवितेत्यादि । हे कान्त ! मम