________________
१.२
कायादों .
टूरे प्रियतमः सोऽयमागतो जलदागमः । दृष्टाश्च फुल्ला निचुलानमृता चास्मि किं न्विदम्१३३ कार्याक्षेपः स कार्य्यस्य.मरगास्य निवर्त्तनात् । तत्कारणमुपन्यस्य दारुणं जलदागमम् ॥१३४॥ न चिरं मम तापाय तव याना भविष्यति । यदि यास्यसि यातव्यमलमाशङ्कयाऽत्र ते ॥१३॥
निषिद्धः अतः एषः स प्रसिद्धः कारणाक्षेपः । अत्र न भयम अस्तौति कथनेन भयरूपकार्यस्य प्रतिषेधात् अयं कार्याक्षेपखेत्यनयोः सङ्करः। विभावना च स्फुटतया लक्ष्यते, विभावना विना हेतु कार्योत्पत्तियंदुच्यते इति तल्लक्षणात् अतस्त्रयाणामेव सङ्कर इति ज्ञेयम् ॥ १३१ ॥ १३२ ॥ ___ कार्याक्षेपं दर्शयति दूरे इत्यादि। प्रियतमः दूरे तिष्ठति इति शेषः, सः अयं जलदागमः वर्षासमयः आगतः, यतः फुल्ला निचुला: स्थलवेतसाः दृष्टाश्च, तथापि न मृता च अस्मि, नु वितर्क, किमिदम् अत्यसम्भाव्यमिदम् इति भावः, विरहियुक्तिरियम्। पत्र तस्य कारणं दारुणं जलदागमम् उपन्यस्थ कार्यस्य मरणस्य निवर्तनात् प्रतिषेधात् सः प्रसिद्धः कार्याक्षेपोऽयम् । अत्र सति कारणे फलस्य मरणस्य अभावकीर्तनात् विशेषोतिरपि। तदुक्तं दपणकारेण, सति हेती फलाभावो विशेषोक्तिस्तथा हिधा इति तदनयोः सङ्कर इति बोध्यम् ॥ १३३ ॥ १३४ ॥
पनुन्नाक्षेपमुदाहरति नेत्यादि। तव यात्रां प्रवासगमनं मम चिरं सापाय न भविष्यति, विरहेण मम झटिति प्राणा