________________
हितीयः परिच्छदः ।
१०५
यदि सत्य बयावा ते काप्यन्या मृग्यतां त्वया। अहमद्यैव मडास्मि रधापक्षण मृत्यु ना ॥१४३॥ इत्येष परुषाक्षेपः परुषाक्षरपूर्वकम् । कान्तस्याक्षिप्यते यस्मात् प्रस्थानं प्रेमनिधया॥१४४ गन्ता चेत् गच्छ तूर्णं ते कर्णी यान्ति पुरा रवाः आतंबन्धमुखोद्गी: प्रयाणपरिपन्थिनः ॥१४॥ साचिव्याक्षेप एवैष यदव प्रतिषिध्यते । प्रियप्रयाणं साचिव्यं कुर्वत्येवानुरतया ॥ १४६ ॥
परुषाक्षेपमुदाहरति यद त्यादि। यदि ते तव यात्रा विदेशगमनं सत्यैव, तदा त्वया अन्या कापि प्रियतमा मृग्यताम् अन्विष्यताम्। अहं रन्धापेक्षेण छिद्रानुसन्धायिना मृत्युना अद्यैव न तु कालान्तरे, रुहा. आक्रान्ता अस्मि, अद्यैव मम मृत्युभविष्यति इति भावः। इत्यत्र प्रेमनिघ्नया अनुरागवशवर्तिन्या कयाचित् परुषाक्षरपूर्वकं निष्ठुरवचनमुक्त्वा इत्यक यस्मात् कान्तस्य प्रस्थानं विदेशगमनम् आक्षिप्यते निषिध्यते अतः एष परुषाक्षेपः ॥ १४३ ॥ १.४४ ॥
साचिव्याचेपमुदाहरति मन्तेत्यादि। है कान्त ! गन्ता गामी चेत् गमिष्यसि यदीत्यर्थः भविष्यदर्थे उन्। तूर्ण मच्छ पार्तानां शोकाकुलानां मन्मरणेनेति भावः, बन्धूनां मुखोद गोर्णा मुखोच्चरिताः प्रयाणपरिपन्थिनः विदेशयात्राप्रतिरोधिनः रवाः ममृत्युसूचका वर्णाः ते कौँ पुरा यान्ति श्रवणगोचरीभविष्यन्ति इत्यर्थः । पुरायोगे भविष्यदर्थे लट् । अत्र अनुरन्या कयाचित् साचिव्यं सहायतां तूर्णं गच्छोल्यनेनेति भाव: