________________
१०६
काव्यादर्श गच्छति वक्तुमिच्छामि त्वप्रियं मयियैषिणी । निर्गच्छति मुखादाणी मागा इति करोमि किम्१४७
यत्नाक्षेपः स, यत्नस्य कृतस्यानिष्टवस्तुनि । विपरीतफलोत्पत्तेरानर्थक्योपदर्शनात् ॥१४८॥ क्षणं दर्शनविघ्नाय पक्ष्मस्पन्दाय कुप्यतः । प्रेम्णः प्रयाणं त्वं ब्रूहि मया तस्येष्टमिष्यते ॥१४॥ सोऽयं परवशाक्षेपो यत्प्रेमपरतन्त्रया। तया निषिध्यते यात्रत्यन्यार्थस्योपदर्शनात्॥१५०॥ कुर्वत्या यत् यस्मात् प्रियप्रयाणं प्रियस्य विदेशयात्रा प्रतिषिध्यते अत एव साचिव्याक्षेपः ॥ १४५ ॥ १४६ ॥
यत्नाक्षेपं निरूपयति गच्छेत्यादि। त्वप्रियं तव अनुकूलं गच्छ इति वचः वक्तुम् इच्छामि, किन्तु मुखात् मा गा इति मप्रियैषिणी वाणी निर्गच्छति किं करोमि तव रहे अवस्थानस्यैव मत्प्रियत्वात् इति भावः। अत्र अनिष्टवस्तुनि गच्छति गमनविधाने कृतस्यापि यत्नस्य विपरीतस्य फलस्य मा गा इति वाणौनिःसरणरूपस्य उत्पत्तेः नातत्वात् भानर्थ क्योपदर्शनात् अनर्थसम्भवद्योतनात् विदेशगमनमाक्षिप्यते इति अयं यत्नाक्षेपः ॥ १४७ ॥ १४८ ॥ ___ परवशाक्षेपमुदाहरति क्षणमित्यादि। हे कान्त ! त्वं क्षणं व्याप्य दर्शनविघ्नाय दर्शनप्रतिबन्धकाय पक्ष्मस्पन्दाय कुप्यतः पक्ष्माणां नेत्रलोम्नां स्पन्दनमपि असहमानात् प्रेम्ण: अनुरागापरनाम्न: प्रणयात् प्रयाणं यात्रानुमतिं ब्रूहि प्रार्थय, मया तस्य प्रेम्णः एव 'इष्टम् इष्यते। प्रेमाधौनाया मम अनुज्ञया