SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः । सहिष्ये विरहं नाथ ! देह्यदृश्याञ्जनं यथा । यदतवां कन्दर्पः प्रहतु मां न पश्यति १५१ ॥ दुष्करं जीवनोपायमुपन्यस्योपरुध्यते । पत्य : प्रस्थानमित्याहुरुपायाक्षेपमीदृशम् ॥ २५२॥ प्रवृत्तैव प्रयामीति वाणी वल्लभ ! ते मुखात् । अयतापि त्वयेदानों मन्दप्रेम्णा समास्ति किम् १५३ रोषाक्षेपोऽयमुद्रिक्त स्नेहनियन्त्रितात्मना । संरख्वया प्रियारब्ध प्रयाणं यन्निषिध्यते ॥ १५४॥ १०७ अलं प्रेम्णः अभिमतञ्चेत् तव गमनं तदा गच्छेति भावः । प्रयाणानुमतिं कामयमानं पतिं प्रति कस्याश्विदुक्तिरियम् । यत्र प्रेमपरतन्त्रया नायिकया अन्यार्थस्य प्रेमानुमतिग्रहणरूपस्य उपदर्शनात् उपदेशात् यात्रा कान्तस्य विदेशगमनं निषिध्यते इति श्रयं सः प्रसिद्धः परवशाक्षेपः ॥ १४८ ॥ १५० ॥ उपायाक्षेपमाह सहिष्ये इत्यादि । हे नाथ ! तव विरहं सहिष्ये, मम अदृश्याञ्जनम् अदर्शनजनकं कज्जलविशेषं देहि, किं तत इत्याह यदिति । कन्दर्पः येन कज्जलेन अक्ते लिप्ते नेत्रे यस्याः तादृशीं मां प्रहर्तुं न पश्यति, तव विरहे कन्दर्पो मां व्यथयिष्यति, यदि तस्याशङ्का न स्यात् तदा तव प्रयाणे न हानिरिति भावः । अत्र दुष्करं जीवनोपायं कामादर्शनजनक सिद्धाज्ञ्जनविशेषदानरूपं जीवनोपायम् उपन्यस्य तदमम्भवात् पत्युः प्रस्थानं विदेशयात्रा उपरुध्यते प्रतिषिध्यले इति ईदृशम् उपायाचेपम् आहुः कवय इति शेषः ॥ १५१ ॥ १५२ ॥ रोषाचेपमुदाहरति प्रवृत्तैवेत्यादि । हे वल्लभ ! ते तब
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy