________________
काव्यादर्णे
मुग्धा कान्तस्य याबोक्तिश्रवणादेव मूर्छिता । बुध्वा वक्ति प्रियं दृष्ट्वा किं चिरेणागतो भवान्१५५ इति तत्कालसम्भूतमूच्छयाक्षिप्यते गतिः । कान्तस्य कातराच्या यन्मू.क्षेपः स ईदृशः॥१५६
मुखात् प्रयामि गच्छामि इति वाणी प्रवत्ता उच्चरिता एव दृशे प्रेणि तव प्रयाणं दुरापास्तं, तदर्थकाणौनिःसरणमपि असम्भवमिति भावः, अतः अनुरागस्तादृशोऽपि त्वया शिथिलीकत इत्याशयेनाह अयतेति। इदानीं मन्दप्रेम्णा शिथिलितानुरागंण अयता गच्छतापि त्वया मम, किम् अस्ति न किमपि प्रयोजनमस्तीत्यर्थः । अयतेति इगतादित्यस्मात् भौवादि. कात् निष्पन्नम्। अत्र उद्रितेन अतिरिक्तेन रोहन प्रेम्णा नियन्त्रितः आक्रान्सः प्रात्मा यस्यास्तादृश्या संरब्धया कुपितया कयाचित् प्रियेण आरब्धम् उद्युक्तं प्रयाणं प्रियकृतविदेशगमनोद्योग इत्यर्थः यत् यस्मात् निषिध्यते अतः अयं रोषाक्षेपः ॥ १५३ ॥ १५४ ॥
मूर्छाक्षेपं निरूपयति मुग्धेत्यादि। काचित् मुन्धा कान्तस्य यात्राया विदेशगमनस्य उक्तिश्रवणात् एव न तु विदेशगमनात् मूर्च्छिता मोहं प्राप्ता, अथ बुवा संज्ञां लब्ध्वा बुद्धेति पाठ सञ्जातचैतन्या प्रियं दृष्ट्वा वक्ति भवान् किं कथं चिरेण भागतः, एतादृशं विलम्ब कत्वा कथमागतोऽसौत्यर्थः । इत्यत्र तत्काले गमनश्रवणकाले सम्भूता मूर्छा यस्या: तया कातराक्ष्या मुग्धया कान्तस्य मतिः यत् आक्षिप्यते निषिध्यवे सं ईदृशः मूर्छाक्षेपः ॥ १५५ ॥ १५६ ॥