________________
द्वितीयः परिच्छेदः।
१०६
नाघ्रातं न कृतं कर्णे स्त्रीभिर्मधुनि नार्पितम् ।। त्वदृद्दिषां दौर्षिकाखेव विशौर्णं नीलमुत्पलम्१५७ असावनुक्रोशाक्षेपः सानुक्रोशमिवोत्पले । व्यावर्त्य कर्म तद्योग्यं शोच्यावस्थोपदर्शनात्॥१५॥ अमृतात्मनि पद्माना इष्टरि स्निग्धतारके । मुखेन्दौ तव सत्यस्मिनपरेण किमिन्दुना ॥१५६॥ इति मुख्येन्दुराक्षिप्तो गुणान् गौणेन्दुवर्तिनः। तत्समान् दर्शयित्वेह श्लिष्टाक्षेपस्तथाविधः ॥१६॥
अनुक्रोशाक्षेपं निरूपयति नेत्यादि। तव हिषां शत्रूणां स्त्रीभिः नौलम् उत्पलं न आघ्रातं न कर्णे कृतं मधुनि च न अर्पितं सुतरां दीर्घिकासु एव विशीर्ण विशुष्कम्। अत्र राजविषया रतिव॑न्यते, तेषां पराजयेन मरणात् पलायनाच्चेति भावः । अत्र उत्पले सानुक्रोशमिव सदयमिव तस्य उत्पलस्य योग्यं कर्म स्त्रीजनकर्तृकाघ्राणादिकं व्यावर्त्य निषिध्य शोच्याया अवस्थाया अनुपभोगेन वापौषु विशौर्णतारूपाया उपदर्शनाम् प्रदर्शनात् असो अनुक्रोशाक्षेपः ॥ १५७ ॥ १५८ ॥
निष्टाक्षेपमुदाहरति अमृतात्मनीत्यादि। अमृतस्येक आत्मा स्वभावो यस्य तादृशे परमावादके इत्यर्थः अन्यत्र अमृतं जलं तदात्मके, पद्माना इष्टरि पराजयकारिणि, अन्यत्र सङ्गोचकत्वात् शत्री तथा निग्धे तारके अक्षिकनौनिके यस्यः तस्मिन् तव अस्मिन् मुखेन्दौ सति अपरण इन्दुना किं न किमपि प्रयोजनमस्तीत्यर्थः । इत्यत्र तत्समान् तस्य मुख्येन्दोः मथान् गौणम् आरोपितं यत् इन्दुः मुखमित्यर्थः तार्तिनः