SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ काव्यादर्श अर्थो न सम्भूतः कश्चिन्न विद्या काचिदर्जिता। न तपः सञ्चितं किञ्चिद् गतञ्च सकलं वयः॥१६॥ असावनुशयाक्षेपो यस्मादनुशयोत्तरम् । अर्थार्जनादेावृत्तिर्दर्शितह गतायुषा ॥ १६२ । किमयं शरदम्भोदः किंवा हंसकदम्बकम् । रुतं नूपुरसंवादि श्रूयते तन्न तोयदः ॥ १६३ ॥ इत्ययं संशयाक्षेपः संशयो यन्निवयते। धर्मेण हंसमुलभेनास्पष्टधनजातिना ॥ १६४ ॥ तदीयान् गुणान् दर्शयित्वा मुख्यः इन्दुः प्राक्षिप्तः प्रतिषिहः इत्यतः तथाविधः तादृशः श्लिष्टाक्षेपः अयम् अस्य श्लेषमूलकत्वात् इति भावः ॥ १५८ ॥ १६० ॥ ___ अनुशयाक्षेपमुद्दिशति अर्थ इति। कश्चित् अर्थः धनं न सम्भृतः, काचित् विद्या च न अर्जिता, किञ्चित् तपः न सञ्चितं सकलं वयश्च गतम् । अत्र यस्मात् अनुशयोत्तरं पश्चा. त्तापबहुलं यथा तथा गतायुषा जनेन अर्थार्जनादेः व्यावृत्तिः अभावः दर्शिता तस्मात् अयम् अनुशयाक्षेपः ॥ १६१ ॥ १६२ ॥ संशयाक्षेपमुदाहरति किमित्यादि। अयं किं शरदम्भोदः, शरत्कालीन: जलापगमात् शुभ्रः मेघः, किंवा हंसानां कद. म्बकं समूहः, किन्तु नूपुरसंवादि नूपुरध्वनिसदृशं रुतं श्रूयते, तस्मात् तोयदः मेघः न। अत्र अस्पृष्टा घनजातिर्येन तादृशेन हंससुलभेन केवलहंससम्बन्धिना धर्मेण तादृशरुतेन यत् यस्मात् संशयः निवर्त्यते तस्मात् अयं संशयाक्षेपः ॥१६३॥१६४॥
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy