________________
द्वितीयः परिच्छेदः ।
१११
चिवमाक्रान्त विश्वोऽपि विक्रमस्ते न शाम्यति । कदा वा दृश्यते तृप्तिरुदीर्णस्य हविर्भुजः ॥ १६५ ॥ अयमर्थान्तराक्षेपः प्रक्रान्तो यन्निवार्य्यते । विस्मयोऽर्थान्तरस्येह दर्शनात् तत्सधर्मणः ॥ १६६॥ न स्तूयसे नरेन्द्र ! त्व ं ददासीति कदाचन । स्वमेव मत्वा गृह्णन्ति यतस्त्वद्दनमर्थिनः ॥ १६७॥ इत्येवमादिराक्षेपः हेत्वाक्षेप इति स्मृतः । अनयैव दिशान्योऽपि विकल्पः शक्य ऊहितुम् १६८ इति आक्षेपचक्रम् ।
अर्थान्तराचेपमुद्दिशति चित्रमिति । ते तव विक्रमः - क्रान्तं विश्वं येन तादृशोऽपि न शाम्यति एतत् चित्रमाश्चर्यम् । वा अथवा उदीर्णस्य उद्दीप्तस्य हविर्भुजः अग्नेः तृप्तिः कदा दृश्यते न कदापि इत्यर्थः । इह अत्र तत्तधर्मणः तस्य विक्रमस्य सधर्मणः समानधर्मस्य अर्थान्तरस्य हविर्भुक्लृप्त्यभावरूपस्य दर्शनात् प्रदर्शनात् प्रक्रान्तः चित्रमिति पदेन प्रस्तुतः विस्मयः यत् निवार्यते, अयम् अर्थान्तराक्षेपः अर्थान्तरेण प्रस्तुतस्याक्षेपात् । अत्र राजविषयिणी रतिर्ध्वन्यते ॥ १६५ ॥ १६६ ॥
हेत्वाक्षेपमुद्दिशति नेत्यादि । हे नरेन्द्र ! त्वं ददासौति कृत्वा कदाचन न स्तूयसे, यतः अर्थिनः तव धनं स्वं निजस्वत्वास्पदोभूतमेव बुड्वा इति शेषः गृह्णन्ति । एतेन राजोsaraदानशीलत्वं सूचितम् । इत्यत्र स्वमेवेति हेतुवशात् प्रस्तुतराजस्तवस्य आक्षेपात् हेत्वात्क्षेपः अयम् आक्षेपस्य हेतुसाध्य
1