________________
११२
काव्यादमें
ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ १६६॥
त्वात् । अनया एव दिशा रौत्या अन्योऽपि विकल्पः आक्षेपस्य भेदः ऊहितुं निरूपयितुं शक्यः धीमद्भिरिति शेषः । कारणाक्षेषे तु कारणस्यैव आक्षेप इह तु कारणेन आक्षेप इत्यनयोभेद इति बोध्यम् ॥ १७७ ॥ १६८ ॥
इति उक्तरूपम् आक्षेपालङ्काराणां चक्रं समूहः । अर्थान्तरन्यासमाह ज्ञेय इति । किञ्चन किमपि वस्तु प्रकृतं प्रस्तुत्य उपन्यस्य तस्य साधने प्रमाणीकरणे समर्थस्य अन्यस्य अप्रक्कृतस्य वस्तुनः विषयस्य कोर्त्तनं सः अर्थान्तरन्यासः शेयः । अत्र प्रस्तुत्य इति क्वाप्रत्ययेन प्रथमं प्रकृतस्य कीर्त्तनं ततस्तत्समर्थकस्य उपन्यास इति सूचितम् । कदाचित् वैपरौत्यमपि दृश्यते । भोजराजेन स विपरीतार्थान्तरन्यासोऽभिहितः । यथा, प्रतिकूलतामुपगते हि विधी विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपति 1 अत्र पूर्वार्द्धवाक्यं परार्द्धस्य समर्थकमपि प्रागुपन्यस्तम् । वस्तुतस्तु प्रस्तुतस्य पूर्वोक्तस्य परोक्तस्य वा अप्रस्तुतेन समर्थनमर्थान्तरन्यास इति निष्कर्ष: । अत्र समर्थ - समर्थकयोः सामान्यविशेषभावः कार्य्यकारणभावश्च साधर्म्येण वैधर्म्येण वा भवतीति दर्पणकारः । यथा, सामान्यं वा विशेषेण विशेषस्तेन वा यदि । काञ्च कारणेनेदं कार्य्येण च समर्थ्यते । साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः ॥ इति । उदाहरणन्तु यथायथमूहनीयम् इति ॥ १६८ ॥