________________
हितीयः परिच्छेदः । ११३ विश्वव्यापी विशेषस्थः श्लेषाविदो विरोधवान् । अयुक्तकारी युक्तात्मा युक्तायुक्तो विपर्ययः ॥१७॥ इत्येवमादयो भेदाः प्रयोगेष्वस्य लक्षिताः । उदाहरणमालैषां रूपव्यक्ती निदर्श्यते ॥ १७१॥ भगवन्तौ जगन्नेवे सूर्याचन्द्रमसावपि । पश्य गच्छत एवास्तनियतिः केन लाते॥१७२॥
अर्थान्तरन्यासस्य भेदानाह विश्वव्यापीत्यादि । विश्वव्यापी सर्वतः सम्भवशील:, विशेषस्थः अप्सर्वगः श्लेषाविद्यः श्लिष्टपदान्वितः, विरोधवान् प्रकृतविरोधी, अयुक्तकारी अनुचितकार्यकर्ता युक्तात्मा औचित्ययुक्तः, युक्तायुक्तः कियदंशेन युक्तः कियता वा अयुक्तः, तथा विपर्ययः वैपरीत्यगुणयुक्तः । अस्य अर्थान्तरन्यासस्य प्रयोगेषु इत्येवमादयः एवम्प्रकाराः भेदाः विशेषाः लक्षिता: अनुभूताः एषाम् उक्तभेदानां तादृशानाम् अन्येषाञ्च रूपस्य स्वरूपस्य व्यक्ती व्यक्तीकरण वक्ष्यमाणा उदाहरणमाला निदर्श्यते ॥ १७० ॥ १७१ ॥ - विश्वव्यापिनमुदाहरति भगवन्ताविति । भगवन्तो षड़े
यशालिनौ जगतां नत्रे नयनवरूपी सूर्याचन्द्रमसौ अपि का कथा अन्येषामिति अपिना सूच्यते। अस्तं गच्छत एव, पश्य । इममर्थं समर्थयति नियतिरिति । केन नियतिर्भाग्य लवयते अतिक्रम्यते न केनाप्रीत्यर्थः । अत्र चतुर्थपादवाक्यरूपस्य समर्थकस्य विश्वव्यापित्वं ब्रह्मादिकोटपर्यन्तानां सर्वेषामेव नियत्यधीनत्वात् इति सामान्येन पूर्वोक्तत्रिपादगतवाक्यस्य विशेषस्य समर्थनात् विश्वव्यापिनामार्थान्तरन्यरन्यासः ॥१७२॥