________________
११४
काव्याद”
पयोमुचः परीतापं हरन्त्येव शरीरिणाम् । नन्वात्मलाभो महतां परदुःखोपशान्तये ॥ १७३॥ उत्पादयति लोकस्य प्रौतिं मलयमारुतः । ननु दाक्षिण्यसम्पन्नःसर्वस्य भवति प्रियः ॥१७४॥ जगदानन्दयत्येष मलिनोऽपि निशाकरः । अनुष्टह्णाति हि परान् सदोषोऽपि विजेश्वरः॥१७॥
विशेषस्थमुदाहरति पयोमुच इति। पयोमुचः जलदाः शरीरिणां परौतापं हरन्त्येव । उक्तमर्थं समर्थयति नन्विति । महताम् आत्मलाभ: जन्मग्रहणं परेषां दुःखस्य उपशान्तये नाशाय ननु निश्चितम् । अत्र महताम् इत्युक्तेन साधारणप्राणिनामिति विशेषलाभात् उत्तरवाक्यरूपेण सामान्येन पूर्ववाक्यरूपस्य विशेषस्य समर्थनात् विशेषस्थनामार्थान्तरन्यासः ॥ १७३ ॥ ___ श्लेषाविद्धमुदाहरति उत्पादयतीति । मलयमारुतः लोकस्यः प्रोतिम् उत्पादयति। तथाहि, दाक्षिण्य सम्पन्नः दाक्षिण्येन दक्षिणदिक्सम्पर्केण मलयस्य दाक्षिणात्यत्वात् इति भावः । अन्यत्र औदार्येण सम्पन्नः युक्त: लोकः सर्वस्य प्रियो भवति ननु । अत्र श्लेषमूलत्वेनैव उत्तरवाक्यस्य पूर्ववाक्यसमर्थनात् श्लेषाविधनामार्थान्तरन्यासः ॥ १७४ ॥
' विरोधवन्तमुदाहरति जगदिति। एष निशाकरः मलि नोऽपि सक तङ्कोऽपि जगत् आनन्दयति। तथाहि विजेश्वरः ब्राह्मणश्रेष्ठः सदोषोऽपि परान् अन्यान् अनुग्रह्णाति उपदेशदानादिना इति भावः । अव निशाकरस्यापि हिजराजवेन