SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः । ११५" मधुपानकलात् कण्ठान्निर्गतोऽप्यलिनां ध्वनिः । कटुर्भवति कर्णस्य कामिनां पापमीदृशम् ॥ १७६॥ अयं मम दहत्यङ्गमम्भोजदल संस्तरः । हुताशनप्रतिनिधिर्दाहात्मा ननु युज्यते ॥१७७॥ क्षिणोतु कामं शोतांशुः किं वसन्तो दुनोति माम् द्विजेश्वरानुग्रहरूपेण सामान्येन विशेषस्य समर्थनं तच्च सामानाधिकरण्यात् सदोषत्वानुग्राहकरूपयोर्विरुद्धधर्मयोः विरोधयुक्तमिति विरोधवदर्थान्तरन्यासः ॥ १७५ ॥ 1 अयुक्तकारिणमुदाहरति मध्विति । मधुपानेन कलात् मधुरात् अलिनां भ्रमराणां कण्ठात् निर्गतोऽपि ध्वनिः कामिनां कर्णस्य कटुर्भवति । तथाहि, पापम् ईदृशं दुःखदमित्यर्थः । एतेन कामित्वस्य पापत्वमुक्तम् । अत्र पापस्य दुःखकररूपसामान्येनार्थेन मधुरस्यापि भ्रमरध्वनिरूपविशेषस्य समर्थनात् तस्य सयुक्तत्वात् अयुक्तकारिनामार्थान्तरन्यासः ॥ १७६ ॥ युक्तात्मानमुदाहरति श्रयमिति । अयं हुताशनप्रतिनिधि: अग्निसदृशः अम्भोजानां पद्मानां दलैः संस्तरः शय्या मम अङ्गं दहति । तथाहि, दाहः दाहकता आत्मा स्वभावः दाहकत्वरूपा प्रकृतिरित्यर्थः अग्नेरिति शेषः युज्यते, अत्र पद्मदलरूपशय्यायाः हुताशनप्रतिनिधित्वेन अङ्गदाहकत्वं युक्तम् इति सामान्येन विशेषस्य समर्थनात् । युक्तात्मनामार्थान्तरन्यासः ॥ १७७ ॥ युक्तायुक्तमुदाहरति क्षिणोत्वित्यादि । शीतांशुः कामं
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy