SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ काव्यादर्थे मलिनाचरितं कर्म सुरभेर्नन्वसाम्प्रतम् ॥ १७८ ॥ कुमुदान्यपि दाहाय किमयं कमलाकरः । न होन्दु ग्रेषु सूर्य्यगृह्यो मृदुर्भवेत् ॥ १७९ ॥ इत्यर्थान्तरन्यासचक्रम् । ११६ क्षिणोतु पौड़यतु, तस्य कलङ्गित्वात् परपीड़नं युक्तमिति भावः, वसन्तः किं कथं मां दुनोति तापयति । तथाहि, सुरभेः सुविख्यातनामधेयस्य अथच वसन्तस्य, मधौ कामदुघायाञ्च्च विख्याते सुरभिर्द्दयोरिति कोषः । मलिनेन पापिना आचरितं कर्म परपीड़नरूपम् असाम्प्रतम् अयुक्तं ननु, अत्र उत्कृष्टस्य अपकर्मकरणेन अयुक्तत्वम् अपकृष्टस्य अपकर्मकरणेन युक्तत्वम् इति युक्तायुक्तनामार्थान्तरन्यासः । सुरभेरित्यस्य श्लिष्टत्वेन च श्लेषाविद्धोऽपौत्यनयोः सङ्करः ॥ १७८ ॥ विपर्ययमुदाहरति कुमुदानीति । कुमुदान्यपि अतिशौतलान्यपौत्यर्थः, दाहाय, दाहकानौत्यर्थः, श्रयं कमलानामाकरः पद्मानीत्यर्थः किं का कथा पद्मेषु सूर्यग्टह्यत्वात् नातिशौतेषु इत्यर्थः, इन्दुह्येषु चन्द्रपक्षेषु उग्रेषु दाहकेषु इत्यर्थः सूर्य्यग्टह्यः सूर्य्यपक्षः न हि मृदुः भवेत् यस्य इन्दुपक्षोऽपि क्लेशावहः तस्य सूर्य्यपक्षस्य क्लेशावहत्वं किमु वक्तव्यमिति भावः । अत्र अयुक्तस्य कुमुदस्यापि अयुक्तकरणात् विपर्ययनामायमर्थान्तरन्यासः । स च इन्दु ग्टह्य सूर्य ग्टह्य पदघटितवाक्यरूप सामान्येन पूर्वार्द्धवाक्यरूपविशेषः, समर्थित इत्यवधेयम् ॥ १७८ ॥ इति उक्तरूपम् अर्थान्तरन्यासस्य चक्रं समूहः ।
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy