________________
हितीयः परिच्छेदः । ११७ शब्दोपात्ते प्रतीते वा सादृश्ये वस्तुनोईयोः । तब यद् भेदक वन व्यतिरेक: स कथ्यते ॥१८॥ धैर्यलावण्यगाम्भीर्यप्रमुखस्त्वमुदन्वतः । गुणैस्तुल्योऽसि भेदस्तु वपुषैवेदृशेन ते ॥ १८१ ॥ इत्ये कव्यतिरेकोऽयं धर्मेणैकत्र वर्तिना। प्रतीतिविषयप्राप्तर्भेदस्योभयवर्तिनः ॥ १८२ ।
.- व्यतिरेकमाह शब्दोपात्ते इति। योर्वस्तुनोः उपमानोपमेययोः सादृश्ये शब्दोपात्ते साधारणधर्मप्रतिपादकशब्दप्रयोगेण बोधिते वा प्रतीते साधारणधर्मवाचकशब्दानुपादानात् व्यञ्जनया सूचिते सति तत्र तयोरित्यर्थः, षष्ठयर्थे सप्तमी। यत् भेदकथनं विशेषप्रतिपादनं स व्यतिरेकः कथ्यते। तथाच, उपमानोपमेययोः उत्कर्षापकर्षद्योतकवैशिष्ठ्यकथनं व्यतिरेकः. इत्युक्तम् । अत एवोक्तं विखनाथन यथा, आधिक्यमुपमयस्योपमानान्यूनताथवा। व्यतिरेक इति । तत्र उत्कर्षोदाहरणानि वक्ष्यमाणानि, अपकर्षोदाहरणं दर्पणकारेणोक्तम्। यथा, क्षीणः क्षीणोऽपि शशी भूयोभूयोऽभिवईते नित्यम् । विरम प्रसीद सुन्दरि! यौवनमनिवर्त्ति बातन्तु ॥ अत्र उपमेयस्य यौवनस्य उपमानात् चन्द्रादचिरस्थायित्वेनापकर्षः ॥ १८० ॥
तत्रैक यतिरेकमाह धैर्येत्यादि। धैर्यम् अनौद्धत्यम् अनतिक्रान्तवेलवञ्च, लावण्यं सौन्दर्य लवणमयत्वञ्च, गाम्भीर्य दुरवगाहस्वभावत्वम् अगाधत्वञ्च इत्यादिभिर्गुणैः त्वम् उदन्वतः समुद्रस्य तुल्योऽसि केवलम् ईदृशेन अतिमनोहरेण इत्यर्थः वपुषा शरीरेण ते तव मेदः उदन्वत इति शेषः। अत्र एकत्र