________________
काव्याद” अभिनवेलौ गम्भीरावम्बुराशि वानपि । असावञ्जनसङ्काशस्त्वन्तु चामौकरद्युतिः ॥१८३॥ उभयव्यतिरेकोऽयमुभयोर्भेदको गुणी। काण पिशङ्गता चोभौ यत् पृथग्दर्शिताविह१८४ त्व समुद्रश्च दुर्वारौ महासत्त्वौ सतेजसौ। अयन्तु युवयोर्भेदः स जड़ात्मा पटुर्भवान् ॥१८५॥
उपमेये एव वर्त्तिना स्थितन धर्मेण प्रतिमनोहरवपुमत्त्वरूपेण उभयवर्तिनः उपमेयोपमानस्थितस्य भेदस्य उपमेयोत्कर्षस्य उपमानापकर्षस्य चेत्यर्थः प्रतीतिविषयप्रातः प्रतीतत्वात् इत्यर्थः अयम् एकव्यतिरीकः, एकमात्रगतधर्मस्य एव उभयोआंदकत्वात् इति भावः ॥ १८१ ॥ १८२॥ __ उभयव्यतिरेकमुदाहरति अभिनेत्यादि। अम्बुराशिः भवान् अपि उभौ अभिनवेलौ अनतिक्रान्तमयादी तथा गम्भीरौ दुरवगाहखभावः अगाधश्च इत्यर्थः । किन्तु असौ अम्बुराशि: अननसङ्काश: सामुद्रिकजलस्य कृष्णवादिति भावः, त्वन्तु चामौकरद्युतिः काञ्चनवर्ण: अतिसुन्दर इत्यर्थः । इह उभयोः उपमानोपमेययोः काणं पिशङ्गता च इमौ उभौ भेदको भेदसाधने गुणौ यत् पृथक् दर्शिती, अतः अयम् उभयव्यतिरेकः उभयनिष्ठत्वादनयोर्भेदकयोरिति भावः ॥ १८३॥ १८४ ॥ ___ सश्लेषव्यतिरेकमुदाहरति त्वमित्यादि । त्वं समुद्रश्च दुर्वारी दुर्धषः अवार्यवेगश्च, महासत्त्वौ सत्त्वगुणाधिकः प्रबलजलजन्तुश्च, सतेजसौ महाप्रतापः सवाड़वानलश्च इत्यर्थः, अयन्तु युवयोः भेदः स समुद्रः जड़ात्मा जलमयस्वरूपः अन्यत्र शीतल