________________
द्वितीयः परिच्छेदः ।
स एष श्लेषरूपत्वात् सश्लेष इति गृह्यताम् । साक्षेपश्च सहेतुश्च दर्श्यते तदपि इयम् ॥ १८६॥ स्थितिमानपि धौरोऽपि रत्नानामकरोऽपि सन् । तव कक्षां न यात्येव मलिनो मकरालयः ॥ १८० ॥ वहन्नपि महीं कृत्स्नां सशैलद्दीपसागराम् । भर्त्तृभावाद् भुजङ्गानां शेषस्त्वत्तो निकृष्यते॥१८८॥
११६
स्वभावः, भवांस्तु पटुः सुनिपुणः अन्यत्र अतिवेगवान् । अत्र भेदकयोः धर्मयोः श्लेषरूपत्वात् श्लिष्टत्वात् इत्यर्थः एषः सश्लेषव्यतिरेक इति न च अत्र साधारणधर्माणां श्लिष्टत्वे मश्लेषव्यतिरेक इति वाच्यं तथात्वे सर्वत्रैव सश्लेषव्यतिरेकत्वप्रसङ्गात् क्वचित् शब्दश्लेषस्य क्वचिदा अर्थ श्लेषस्य सद्भावस्य दुर्वारत्वात् इति सुधीभिर्भाव्यम् । पुनश्च अस्य भेदद्दयं दर्श्यते साक्षेपः सहेतुश्च, उदाहरणे तु अनयोर्वक्ष्यमाणे इति ॥ १८५ ॥ १८६ ॥
मकरालयः
साक्षेपव्यतिरेकमुदाहरति स्थितिमानिति । समुद्रः यतः मलिनः, अतः स्थितिमान् अनुल्लङ्घितमय्याद: अपि, धौरोऽíप गभौरोऽपि अन्यत्र दुरवगाहस्वभावोऽपि तथा रत्नानाम् आकरः उत्पत्तिस्थानमपि अन्यत्र गुणरत्नानाम् श्राधारोऽपि इत्यर्थः तव कक्षां सादृश्यं न यात्येव न प्राप्नोति एव । अत्र उपमानगतेन मालिन्यरूपधर्मेण साम्यप्राप्तेराक्षेपात् साक्षेपव्यतिरेकः ॥ १८७ ॥
सहेतुव्यतिरेकमाह षहत्रिति । सशैलद्दीपसागरां कृत्स्नां समग्रां महीं वहनपि शेषः अनन्त: भुजङ्गानां पऩगानाम् अथच विटानां, भुजङ्गो विटसर्पयोः इति कोषः । भर्तृभावाव्