________________
१२०
काव्यादयें
शब्दोपादानसादृश्यव्यतिरेकोऽयमौदृशः ।। प्रतीयमानसादृश्योऽप्यस्ति सोऽप्यभिधीयते॥१८॥ वन्मुखं कमलञ्चेति योरप्यनयोभिदा। कमलं जलसंरोहि त्वन्मुखं त्वदुपाश्रयम् ॥ १६० ॥ अभ्र विलासमस्पृष्टमदरागं मृगेक्षणम् । इदन्तु नयनहन्दू तव तद्गुणभूषितम् ॥ १६१ ॥ स्वामित्वात् त्वत्तः निकृष्यते निकष्टो भवति। अत्र भुजङ्गपतित्वरूपधर्मस्य त्वदपेक्षया उपमानभूतानन्तापकर्षे हेतुत्वकीर्तनात् सहेतुव्यतिरेकः ॥ १८८॥ .
इत्थं शब्दोपात्तसादृश्यव्यतिरेकमुत्ता प्रतीयमानसादृश्य निरूपयति। शब्दोपादानेति शब्दस्य साधारणधर्मवाचकस्य उपादानेन यत् सादृश्यं तस्य व्यतिरेकः अयं पूर्वोक्तप्रकारः । प्रतोयमानं सादृश्यं यत्र तादृशोऽपि व्यतिरेकोऽस्ति अध्रुना सः अभिधीयते इत्यन्वयः ॥ १८८॥
वन्मुखमिति। तव मुखं कमलञ्च, अनयोईयोः इति भिदा भेदः, कमलं जलसंरोहि जलजं त्वन्मुखन्तु त्वदुपाश्रयं त्वदेकाधारम्। अत्र साधर्म्यस्य अप्रयोगेऽपि मुखकमलयोः साम्यं प्रसिद्धिवशात् प्रतीयते इति प्रतीयमानव्यतिरेकः ॥१८०॥
अभूविलासेति। मृगस्य ईक्षणं नयनम् अभ्रविलासं भू. विलासरहितं तथा अस्पृष्टः मदरागो येन तादृशम् अप्राप्तमद्यपानजनितलौहित्यमित्यर्थः, तव इदं नयनहयन्तु तद्गुणभूषितं भूबिलासयुक्तं स्पृष्टमदरागञ्च इत्यर्थः । अत्र उपमानमरीक्षणोपमेयनयनहयानां विरुधधर्मवत्त्वमेव दर्शितं सादृश्य प्रतीयः मानव्यतिरेकः ॥ १८१॥