________________
हितीयः परिच्छेदः। १२१ पूर्वस्मिन् भेदमावोतिरस्मिन्नाधिक्यदर्शनम् । सदृशव्यतिरेकश्च पुनरन्यः प्रदर्यते ॥ १८२॥ त्वन्मुखं पुण्डरीकञ्च फुल्ले सुरभिगम्धिनी । भ्रमभ्रमरमम्भोज लोलनेवं मुखन्तु ते ॥ १६३ ॥ चन्द्रोऽयमम्बरोत्तंसो हंसोऽयं तोयभूषणम् । नभो नक्षत्रमालीदमुत्फुल्लकुमुदं पयः ॥ १६४ ॥
उक्तोदाहरणयोः फलं दर्शयति पूर्वस्मिन्निति। पूर्वस्मिन् उदाहरणे त्वन्मुखमित्यत्र भेदमावस्य उपमानोपमेययोर्भेदकधर्ममात्रस्य उक्तिः, न तु उत्कर्षस्य अपकर्षस्य वा, भेदश्च विधा विरुद्धधर्माध्यासः कारणभेदश्च, अत्र तु कारणभेद एवेति बोध्यम् । अस्मिन् अव्यवहिते उदाहरणे अभूविलासमित्यत्र आधिक्यस्य उपमानोपमेययोनिकर्षोल्कर्षरूपस्य दर्शनम् अत्र तु विरुद्धधर्माध्यास एव भेदकारणमित्यवधेयम्। अन्यश्च सदृशव्यतिरेकः प्रदीते उदाङ्गियते ॥ १८२ ॥
सदृशव्यतिरेकं शाब्दमुदाहरति त्वन्मुखमिति। तव मुखं पुण्डरीकं पद्मञ्च फुल्ले विकसिते, फुल्लत्वमेकत्र मितशोभितत्वम् अन्यत्र प्रकाशमानं, तथा सुरभिगन्धिनी, अत्र फुल्लत्वसुरमिगन्धित्वयोः साधारण्यात् सादृश्यमत्रं शाब्दम् । अम्माज भ्रमन्तः भ्रमरा यस्मिन् तत्, ते मुखन्तु लोले नेत्रे यस्मिन् तादृशम् । अत्र असामान्यमपि भ्रमभ्रमरवत्त्वं लोलनेत्रत्वञ्च प्रायशः सदृशमेव न तु विरुद्धमिति सदृशव्यतिरेकोऽयं शादः ॥ १८३॥
सदृशव्यतिरेकमार्थसुदाहरति चन्द्र इति। अयम् अम्ब- .