SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ .१२२ काव्यादों प्रतीयमानशौयादिसाम्ययोश्चन्द्रहंसयोः । कृतः प्रतीतशुद्धयोश्च भेदोऽस्मिन् वियदम्भसो:१६५ पूर्वव शब्दवत् साम्यमुभयवापि भेदकम् । भृङ्गनेवादितुल्यं तत् सदृशव्यतिरीकता ॥ १६६ ॥ अरत्नालोकसंहार्यमवायं सूर्यरश्मिभिः । रोत्तंस: आकाशभूषणं चन्द्रः, अयं हंसः तोयस्य भूषणम्, इदं नभः आकाशं नक्षत्रमालि ताराविराजितं, पयश्च उत्फुल्लानि कुमुदानि यस्मिन् तादृशम्। नभो नक्षत्रमालोदमिदमुत्कुमुदं पय इति च पाठः क्वचित् दृश्यते। अत्र चन्द्रहंसयोराकाशपयसोश्च उपमानोपमेययोः सादृश्यमर्थतः प्रतीयते इति सदृशव्यतिरेक आर्थः ॥ १८४ ॥ . प्रतीयमानेति। अस्मिन् चन्द्रोऽयमित्यत्र उदाहरण प्रतीयमानं वाचकशब्दाप्रयोगात् आर्थं शौक्लयादिसाम्यं ययोः ताभयोः चन्द्रहंसयोः प्रतीता प्रसिद्धा शुद्धिर्ययोस्तथाभूतयोः वियदम्भसोः आकाशजलयोः उपमानोपमेययोः मेदः कृतः दर्शित इति सादृश्यस्य शब्दानुपात्तत्वात् सदृशव्यतिरेक आर्थ इति भावः ॥ १८५॥ - पूर्वत्रेति । पूर्वत्र पूर्वस्मिन् त्वमुखमित्यत्र उद्दाहरणे उभयनापि उपमानोपमेययोरुभयोरपौत्यर्थः शब्दवत् शब्दोपालं मान्यं भेदक, भृङ्गनेत्रादिभ्रमभ्रमरत्वं लोलनेत्रत्वञ्च तुल्यं विम्बानुविम्बतया सादृश्यबोधकं, तत् तस्मात् सदृशव्यतिरेकः शाब्द इति भावः ॥ १८६ ॥ ... सजातिव्यतिरेकं दर्शयति अरत्नेति। यूनां यौवनप्रभवं
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy