SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ .. हितोय: परिच्छेदः। १२३ दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥ १७॥ सजातिव्यतिरेकोऽयं तमोजातेरिदं तमः । दृष्टिरोधितया तुल्ये भिन्नमन्यैरदर्शि यत् ॥१८॥ ___ व्यतिरेकचक्रम् । प्रसिद्धहेतुव्यावृत्त्या यत् किञ्चित् कारणान्तरम् । यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना १६६ तमः मोहः अन्धकारच अरत्नालोकसंहार्य रबानाम् आलोकेन असंहार्य हर्तुमशक्यं सूर्यरश्मिभिः अवार्यम् अनाश्य तथा दृष्टिः चक्षुः ज्ञानञ्च तस्या रोधः आवरणं तत्करम् । अत्र शेषेण . तमःपदोपात्तयोर्मोहान्धकारयोविरुद्धधर्मत्वकीर्तनेऽपि दृष्टि रोधकत्वसाम्यात् सजातिव्यतिरेकः ॥ १८७॥ सजातिव्यतिरेकं घटयति सजातीति। यत् यस्मात् दृष्टिरोधितया तुल्यम् इदं तमः मोहरूपम् अन्यैः साधारणधर्म: रत्नालोकहार्यत्वादिभिः तमोजाते: अन्धकारजातित: भिवम् प्रदर्शि प्रदर्शितम्, अतः अयं सजातिव्यतिरेकः ॥ १८८॥ विभावनां निरूपयति प्रसिद्देति। यत्र वैचित्रे प्रसिदस्य विख्यातस्य हेतोः कारणस्य व्यावृत्त्या अभावप्रदर्शनेन यत् किञ्चित् कारणान्तरं वा स्वाभाविकत्वं स्वतःसिद्धत्वं विभाव्यं विशेषण अभिनिवेशेन भाव्यं चिन्तनीयं सा विभावना। तथाच, प्रसिद्ध हेतुमन्तरेम फलोत्पत्तिदर्शनात् तस्य यत् किञ्चित् गूढकारणान्तरस्य वा तदनुपपत्त्या स्वाभाविकत्वस्य वा भावनावैचित्रा विभावनेति बोध्यम् । दर्पणकारस्तु, विभाबना विना हेतुं कार्योत्पत्तिर्यदुखते, इत्याह ॥ १८८ ॥
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy