________________
काव्यादमें
अपीतची कादम्बमसंसृष्टामलाम्बरम् । अप्रसादितशुद्धाम्बु जगदासोन्मनोहरम् ॥ २०० ॥ अनञ्जिताऽसिता दृष्टिभ्रूरनावर्जिता नता । अरञ्जितोऽरुणश्चायमधरस्तव सुन्दरि ! ॥ २०१ ॥ यदपीतादिजन्यं स्यात् क्षीवत्वाद्यन्यहेतुजम् । चहेतुकञ्च तस्येह विवक्षेत्यविरुद्धता ॥ २०२ ॥
कारणान्तरविभावनामाह अपौतेति । जगत् अपीताः अकृतमधुपानाः अथच क्षौवाः मत्ताः कादम्बा: हंसविशेषा यस्मिन् तत्, असंसृष्ट ं मार्जन्या अपरिष्कृतम् अथच अमलं निर्मलम् अम्बरम् आकाशं यस्मिन् तत्, तथा अप्रसादितं केनाप्यपरिष्कृतम् अथच शम् अम्बु जलं यस्मिन् तथाभूतम् अतएव अतिमनोहरम् आसीदित्यन्वयः । अत्र प्रसिदस्य चौवत्वकारणस्य पानस्य, श्रमलत्वकारणस्थ मार्जनस्य, शुद्दिकारशस्य प्रसादनस्य असद्भावेऽपि तत्तत्फलोत्पत्तिः शरत्कालरूपं कारणान्तरं विभावयतीति कारणान्तरविभावना ॥ २०० ॥
स्वाभाविकत्वे विभावनामाह अनञ्जितेति । हे सुन्दरि ! तब दृष्टि: अमञ्जिता अञ्जनेन अननुलिप्तापि असिता श्यामला, भ्रूः नावर्जिता अनाकष्टापि नता वक्रोक्ता, श्रयमधरच अरञ्जितोऽपि अरुण: अत्र प्रसिद्धमसितत्वकारणम् अञ्जनं वक्रताकारणमार्जनम् अरुणताकारणं रञ्जनं तदभावेऽपि तत्तत्फलोपपत्तिः स्वाभाविकत्वमेव भावयतीति स्वाभाविकत्वविभावना ॥ २०९ ॥
उक्तयोरुदाहरणयोर्लक्षणं सङ्गमयन् विरोधं परिहरति यदिति । पूर्वोदारहणे अपीतादिजन्यं पानाद्यजन्यमित्यर्थः
१२४