SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः । १२५ वक्त्वं निसर्गसुरभि वपुरयाजसुन्दरम् । अकारणरिपुश्चन्द्रो निनिमित्तासुहृत् स्मरः ॥२०३॥ निसर्गादिपदैरव हेतुः साक्षानिवर्तितः । उक्तञ्च सुरभित्वादि फलं तत् सा विभावना॥२०४ इति विभावनाचक्रम् । क्षीवत्वादि अन्यहेतुजं शरत्कालरूपकारणान्तरजन्यं, द्वितीयोदाहरणे अञ्जितत्वाद्यजन्यम् असितत्वादि अहेतुकं स्वाभाविकम् । इह उदाहरणहये तस्य अन्यहेतुजत्वस्य अहेतुकस्य च विवक्षा वक्तुमिच्छा इत्यतः अविरुद्धता विरोधाभावः । अयं भावः कारणाभावे कथं कार्योत्पत्तिः, कारणत्वस्य कार्याव्यवहितपूर्ववर्त्तित्वनियमात् कार्यत्वस्य कारणाव्यवहितोत्तरवर्तित्वनियमाच्च अत: आपाततः विरोधावगतावपि वनुरिच्छावशात् कारणान्तरस्य स्वभावरूपालौकिककारणस्य चानुसन्धानात् वैचित्राजनकत्वाच्च न विरोध इति सुधौभिर्विवेच्यम्॥२०२॥ ___ पूर्व स्वभावस्यार्थत्वमुक्त सम्पति शाब्दं स्वाभाविकत्वमुदाहरति वक्त्रमित्यादि। वक्त्र मुखं निसर्गेण स्वभावेन सुरभि सुगन्धि, वपुः शरीरम् अव्याजेन अंकपटेन सुन्दरं स्वभावसुन्दरं न तु आहार्य्यशोभयेत्यर्थः, चन्द्रः अकारणरिपुः अहेतुकशत्रुः तथा स्मरः कामः निर्निमित्तासुहृत् अकारणशत्रुः अत्र निसर्गादिपदैः साक्षात्प्रत्यक्षीभूतः लौकिक इत्यर्थः हेतुः निवर्त्तितः, सुरभित्वादिरूपं फलञ्च उक्तं, तत् तस्मात् सा प्रसिद्धा शब्दगतखाभाविकत्वलक्षणा विभावना इति ॥ २०३ ॥ २०४॥ इति उक्तरूपं विभावनाचक्र विभावनासमूहः ।
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy