SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२५ काव्यादमें वस्तु किचिदभिप्रेत्य तत्त ुल्यस्यान्यवस्तुनः । उक्तिः संक्षं परूपत्वात् सा समासोक्तिरिष्यते ॥२०५ पिवन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे । अप्यसन्नहसौरभ्यं पश्य चुम्बति कुट्मलम् ॥ २०६॥ इति प्रौढ़ाङ्गनाबद्धरतिलोलस्य रागिणः । कस्याञ्चिदपि बालायामिच्छावृत्तिर्विभाव्यते ॥२०७ समासोक्तिमाह वस्तु इति । किञ्चित् किमपि वस्तु अभिप्रेत्य संकल्पा तत्तुल्यस्य तत्सदृशस्य अन्यस्य वस्तुनः उक्तिः कथनं सा संक्षेपरूपत्वात् संक्षेपेण उक्तत्वात् समासोक्तिरिष्यते संक्षेपस्यैव समासत्वादिति । अयं भावः, दयोः प्रस्तुताप्रस्तु तयोः शब्देन प्रतिपादने भूयान् विस्तारः, स च न वैचित्रामावहतीति एकस्याप्रस्तुतस्य शब्देन प्रतिपादने व्यञ्जनया प्रस्तुतार्थस्य बोधनमतीवचमत्कारपदवौमारोहतौति संचेपोक्तिरिति । उक्तञ्च ध्वनिकृता, वाच्चोऽर्थो न तथा वदते प्रतौयमानः स यथेति । दर्पणकारस्तु समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः । व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुन इत्याह ॥ २०५ ॥ समासोक्तेः कार्य्यलिङ्गविशेषणघटितत्वात् प्रथमं कार्यघटितां समासोक्तिमुदाहरति पिवन्नित्यादि । भ्रमरः फुल्लपङ्कजे विकसितारविन्दे यथाकामं मधु पिवन् असन्नडसौरभ्यम् अजातमधुगन्धम् अपि कुझलं चुम्बति पश्य । इत्यत्र प्रौढ़ायाम् अङ्गनायाम् भावचा रतिलीला येन तादृशस्य रागिणः अनुरागवतः कामिनः कस्याञ्चित् बालायां मुग्धायाम् इच्छावृत्तिः
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy