________________
हितौयः परिच्छेदः ।
विशेष्यमावभिन्नापि तुल्याकारविशेषणा । अस्य सावपराप्यस्ति भिन्नाभिन्नविशेषणा ॥ २०८ ॥ रूढ़मूलः फलभरैः पुष्णन्ननिशमर्थिनः । सान्द्रच्छायो महावृक्षः सोऽयमासादितो मया२०६ अनल्पविटपाभोगः फलपुष्पसमृद्धिमान् । सुच्छायः स्थैर्यवान् दैवादेष लब्धो मया द्रुमः २१० अभिलाषोदयः विभाव्यते ध्वन्यते इति अप्रस्तुतात् भ्रमरकार्य्यात् प्रस्तुतस्य कामुककाय्र्यस्य प्रतीतिः ॥ २०६ ॥ २०७ ॥ विशेषणघटितभेदं दर्शयति विशेष्येति । विशेष्यमात्रं विशेष्यपदमात्रं भिन्नं श्लेषाभावात् एकमात्रबोधकं यत्त्र सा तुल्याकारविशेषणा तुल्याकारं श्लेषवशात् वाच्यव्यङ्ग्योभयधर्मबोधकं विशेषणं यत्त्र सा इत्येकविधा अस्ति, अपरा च भिन्नच्च अभिन्नञ्च विशेषणं यत्र तादृशी इति द्वितीयाऽपि अस्ति ॥ २०८॥
यथाक्रममुदाहरणे दर्शयति रूढ़ इति । रूढ़ प्रवृद्धं मूलं शिफा मूलधनञ्च यस्य सः, फलानां भरैः समूहैः बहुभिर्धनैख अनिशम् अर्थिनः पुष्णन् प्रतिपालयन्, तथा सान्द्रा घना छाया अनातपप्रदेश: कान्तिश्च यस्य तादृशः मः प्रसिद्धः अयं महान् वृक्षः मया आसादितः प्राप्तः ॥ २०८॥
अनल्पेति । अनल्पः, बहुल: विटपानां शाखानाम् आभोगः विस्तारः यस्य सः, फलानां पुष्पाणाश्च समृद्धि : विद्यते अस्य सः, शोभना छाया अनातपप्रदेशः कान्तिश्च यस्य सः, तथा स्थैर्य्यवान् स्थैर्य्यं सारवत्त्व ं तद्दान् दृढ़प्रतिज्ञश्च । उक्तच, व्यवसायादचलनं स्थैर्य्यं विघ्ने महत्यपीति । एवम्भूतः एषः द्रुमः मया दैवात् लब्धः ॥ २१० ॥
१२७