________________
१२८
काव्यादर्श उभयव पुमान् कश्चिद् वृक्षत्वेनोपवर्णितः । सर्व साधारणा धर्माः पूर्ववान्यव तु इयम् ॥२११॥ निवृत्तव्यालसंस! निसर्गमधुराशयः । अयमम्मोनिधिः कष्टं कालेन परिशुष्यते ॥२१२॥ इत्यपूर्वसमासोक्तिः पूर्वधर्मनिवर्तनात् । समुद्रण समानस्य पुंसो व्यापत्तिसूचनात्॥२१३॥
इति समासोक्तिचक्रम् ।
उभयत्र लक्षणं सङ्गमयति उभयत्रेति । उभयत्र पद्ययोः कश्चित् पुमान् वृक्षत्वेन उपवर्णितः, पूर्वत्र उदाहरणे सर्वे धर्माः साधारणाः श्लेषमूलत्वात् विशेष्यपदमात्रं श्लेषस्पर्शाभावात् भिन्नमिति। परत्रोदाहरणे तु हयम् आद्यहितीये विशेषणे श्लेषाभावाद भिन्ने, टतौयचतुर्थे श्लेषोपष्टम्भात् अभिन्न इति भिन्नाभिनविशेषणत्वम् ॥ २११ ॥ __ अपूर्वसमासोक्तिमुदाहरति निवृत्तेत्यादि । निवृत्तः व्यालानां मर्पाणां खलानाञ्च संसर्ग: यस्मात् सः, निसर्गेण स्वावत: मधुराणां सुमिष्टजलानामाशयः प्राधारः अन्यत्र मधुरः मनोरमः आशयो यस्य सः, अयम् अम्भोनिधिः कालेन समयेन यमेन च परिशुष्यते शोषं नीयते विनाश्यते च कष्टं कष्टकरमेतदित्यर्थः । इत्यत्र पूर्वधर्मयोः व्यालसंसर्गित्वलवणजलत्वयोः निवर्त्तनात् अनुपादानेन तदैपरीस्वधर्मयोः कीर्तनादित्यर्थः समुद्रेण समानस्य पुंसः व्यापत्तिसूचनात् विनाशद्योतनात् अपूर्वा पूर्वविपरीता समासोक्तिरियमित्यन्वयः ॥ २१२॥२१३॥