SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः । अर्थान्तरप्रवृत्तेन किञ्चित् तत् सदृशं फलम् । सदसद् वा निदर्थ्येत यदि तत् स्यान्निदर्शनम्३४८ उदयनेष सविता पद्मेष्वर्पयति श्रियम् । विभावयितुमृद्दोनां फलं सुहृदनुग्रहम् ॥ ३४८ ॥ याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम् । सद्यो राजविरुद्दानां सूचयन्तो दुरन्तताम् ॥ ३५० ॥ निदर्शनम् । १८५ सम्प्रति निदर्शनं लक्षयति अर्थान्तरेति । अर्थान्तरे कार्य्यान्तरे प्रवृत्तेन जनेन तस्य अर्थान्तरस्य सदृशं सत् उत्क्कष्टम् असत् अपकृष्टं वा किञ्चित् फलं निदर्श्यत प्रदर्खेत यत्, तनिदर्शनमित्यर्थः । यदीत्यस्य यदित्यर्थः । निदर्शने - त्यपि पाठः । दर्पणकारस्तु सम्भवन्वस्तुसम्बन्धोऽसम्भवम् वापि कश्चन । यव विम्बानुविम्बत्व दर्शयेत् सा निदर्शने - त्याह ॥ ३४८ ॥ सत्फलनिदर्शनं दर्शयति उदयमिति । एषः सविता सूर्य्यः उदयन् उद्गच्छन् उन्नतिं प्राप्नुवंश्च ऋद्धीनां फलं सुहृदनुग्रहं विभावयितुं सत्याम् ऋडौ सुहृदामानुकूल्यं कार्य्यमिति ज्ञापयितुं पद्मेषु श्रियम् अर्पयति । अत्र पद्मेषु श्रौदानप्रवृत्तेन उदयशालिना सूर्य्येण सुहृदुपकाररूपमुदयफलं किञ्चित् निदर्श्यते इति फलञ्चात्र उत्कृष्टमेव ॥ ३४८ ॥ असत् फलनिदर्शनं दर्शयति यातीति । चन्द्रस्य अंशुभिः स्पृष्टा ध्वान्तराजो राजविरुद्धानां सद्यः दुरन्ततां दुःखजनकमवसानं सूचयन्ती प्रकटयन्ती सती पराभवं याति । अब
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy