________________
१५४
काव्याद”
महीभृद भूरिकटकस्तेजखी नियतोदयः । दक्षः प्रजापतिश्चासीत् स्वामी शक्तिधरश्च सः३२१ अच्युतोऽप्यषच्छेदी राजाप्यविदितक्षयः । देवोऽप्यविबुधो जज्ञे शङ्करोऽप्यभुजङ्गवान् ॥ ३२२॥
श्लेषचक्रम् । नियमापरूपोक्तिः पूर्वार्द्ध स्थितायाः परिसंख्यायाः हितीयाइँ च एकत्रनिहितकण्टकस्य वाक्यहयोद्दीपनात् प्राधान्येन स्थितस्य दीपकस्य अङ्गमित्यवधेयम् ॥ ३२० ॥
प्रविरोधिनमुदाहरति महौभृदिति। स: महीभृत् राजा पर्वतश्च भूरिकटकः बहुस्कन्धावार: विशालनितम्बश्च, तेजस्वी प्रतापवान् मयूखमाली च, नियतोदयः सततोन्नतिशाली प्रतिदिवसं जातोहमश्च, दक्षः निपुणः ऋषिविशेषश्च, प्रतापतिः प्रजापाल: सृष्टिकर्ता च, स्वामी प्रभुः विशाखश्च, स्वामी प्रभुविशाखयोरिति मेदिनी। शक्तिधरः प्रभावोत्साहमन्त्रजशक्तिसम्पनः अस्त्रविशेषवांश्च, प्रामौत् । अत्र महीभृदादिनिष्टपदार्थानां परस्परसम्बन्धे अविरोधात् अयम् अविरोधी श्रेषः ॥ ३२१ ॥
विरोधिनमुदाहरति अच्युत इति। अच्युतः सत्पथादभ्रष्टः विष्णुश्च अपि अषच्छेदी वष: धर्मः तदाख्योऽसुरश्च तस्य छेदी न भवतीति तथोक्तः, राजा नरपतिः चन्द्रश्च अपि अविदितः अज्ञातः क्षयः क्षीणता दुर्बलता इत्यर्थः रोगविशेषश्च येन तादृशः, देव: राजा अमरश्च अपि अविबुधः विगतपण्डित: देवश्च न भवतीति तथोक्तः, शङ्करः शुभवत् हरश्च अपि अभुजावान् दुर्जनरहितः सर्परहितच जन्ने, स इति कर्तृपद